SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ८२ ] [तत्त्वबोधिनीविवृतिविभूषितम् तदपि प्रतिक्षिप्तं द्रष्टव्यम् । अथाऽयं विकल्पः सर्वगतत्वादसारः,तथाहि-उत्पादेऽप्येवं शक्यत एव व-स्वभावतो झुत्पत्तिस्वभावस्य न किश्चिदुत्पत्तिहेतुभिः, तत्स्वभावतयैव समुत्पादात्, अनुत्पत्तिस्वभावस्य तु व्यर्था उत्पत्तहेतवः, तद्भावा-यथात्वस्य कर्तमशक्यत्वात् , मैवम्-यतो यद्यभूत्वाभवनलक्षणोत्पत्तिस्वभावहेतोरक्ििश्चत्करत्वम् , तदा इष्टाप.त्तरेव, अथोत्पत्तौ स्वभाव आभिमुख्यलक्षणो यस्य सन्निहितकारगकलापानन्तरभाविनस्तस्य व्यर्थत्वमभिधातुमभिप्रेतम् , तदसानिहिततथाभूतकारणवशात् त्या स्थर्यवादी शङ्कते-अथेति । अयं विकल्पः स्वभावतो भावानां नश्वरत्वेऽपरव्यापारवैफल्यम् . स्वभावतोऽनश्वरत्वे तत्स्वभावा. न्यथाभावाऽसम्भवान्नाश हेतोयर्थ्यमित्येवंभूतो विकल्पः । एतादृशविकल्पस्य सर्वगतत्वमेव भावयति-तथा ही।त । भावस्य स्वभावतो खुत्पत्तिस्वभावस्तदैव घटते यदि स्वत एयोत्पत्तिग्स्य भवेद , एवं चोत्पत्तिस्वभावतयैव तत्समुत्पादप्राप्लेरुत्पत्तिहेतुभिर्न किञ्चिदित्याह-स्वभावतो हीति । यदि स्वभावतोऽनुत्पत्तिस्वभाव एव भावस्तदा व्यर्थी उत्पत्ति हेतवः, तत्स्वभावान्यथाकरणस्याऽशक्य. त्वेनोत्पत्तरेवाऽसम्भवादित्याह-अनुत्पत्तिस्वभावस्य हि ति। तद्भावान्यथात्वस्य अनुत्पत्तिस्वभावान्यथात्वस्य । समाधत्ते-मैवमिति । इष्टापत्तिरेव यस्याऽभूत्वाभवनलक्षणोत्पत्तिस्वभावः स स्वभावस्तथास्वाभाव्यात् स्यादेवेति तद्धतोरकिश्चत्करत्वमिष्टमेव, उक्तस्वभावस्तथास्वाभाव्यात् स्यादेव, तदन्यत् तु तद्धतुन करोत्येव। 'तदसन्निहित०' इति स्थाने 'तदा सन्निहित०' इति पाठो युक्तः, 'व्यर्थताऽयुक्ता' इत्यकारप्रश्लषः,यस्य सन्निहितकारणकलापानन्तरभाविन उत्पत्तावाभिमुख्य लक्षणः स्वभावः सः 'अयमुत्पद्यते, उत्पन्नोऽयम्' इति व्यपदेशनिबन्धनमिति व्यपदेशलक्षणफलहेतु
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy