SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ६८] [तत्त्वबोधिनीविवृतिविभूषितम् मादुभयोल्लेखनियम इति चेत् ? तर्हि विषयविशेषं विना धीव्यवहारविशेषाभ्युपगमे साकारज्ञानवादप्रसङ्ग इति यत् किश्चिदेतत् । एतेन ‘स एवाऽयमिति व्यवहारैकत्वादेकत्वम्' इत्यपास्तम् , यतो व्यवहारो ज्ञानम् ? अभिधानम् ? प्रवृत्तिर्वा ? यदि ज्ञानं, तर्हि तद् निर्विकल्पकम् ? स्मृतिः ? कल्पना वा? यदि निर्विकल्पकं, तत् पूर्वापरकालभाविभिन्नमेव, एककालमपि पूर्वापरार्थप्रतिभासभेदाद् भिन्नम् , अथ स्मृतिः साऽपि दर्शनाद् भिन्ना सम्भवो न विषयविशेषत इति साकारविज्ञानवादप्रसङ्ग इत्याह-- तहीति । एतेन' इत्यस्य 'अपास्तम्' इत्यनेनान्वयः । 'एतेन' इत्यनेनाभिमतमेव हेतुमुपदर्शयति-यत इति । यदि ज्ञानं 'सोऽयम्' इति व्यवहारो यदि ज्ञानस्वरूप इष्यते । तत् 'सोऽयम्' इति ज्ञानम् । तद् निर्विकल्पकं ज्ञानम् । पूर्वकालभावि निर्विकल्पकमन्यत् 'सः' इत्येवं रूपम् , अपरकालभावि निर्विकल्पकमन्यत् 'अयम्' इत्येवंरूपमिति निर्विकल्पकं ज्ञानं भिन्नमेव, तथा च तद्रूपव्यवहारस्यैकत्वाभावात् कथं तदेकत्वादेकत्वमित्याह-पूर्वापरेति । यदि च 'सः' इत्याकारकम् 'अयम्' इत्याकारकं च निर्विकल्पकमेककालमेव, तदाऽपि 'सः' इत्याकारकनिर्विकल्पके पूर्वार्थस्य प्रतिभासः, 'अयम्' इत्याकारकनिर्विकल्पके च वर्तमानार्थप्रतिभास इत्येवं प्रतिभासभेदाद् भिन्नमेव निर्विकल्पकद्वयम् , न तु 'सोऽयम्' इत्येकं तत् तथाऽपि न तदात्मकव्यवहारस्यैकत्वमित्याह-एककालमपीति । 'सोऽयम्' इति स्मृत्यात्मकव्यवहारैकत्वात् । ‘सोऽयम्' इति दर्शनस्यैकत्वमिति ज्ञानरूपव्यवहारपक्षस्य द्वितीयविकल्पमधिकरोति-अथ स्मृतिरिति । 'सोऽयम्'इति स्मृतिर्दर्शनाद् भिन्नति तस्या एकत्वाद् दर्शनस्य तद्भिन्नस्यैकत्वं न सम्भवतीत्याह-साऽपीति-स्मृतिरपीत्यर्थः। तदेकत्वं दर्शनैकत्वम् ।
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy