SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ४७ भिन्नो भिन्नो वा नीरूपत्वात्, भेदाभेदप्रतिषेध एव केवलमस्य क्रियते, तदुक्तम् — “ भावे ह्येव विकल्पः स्याद् विधेर्वस्त्वनुरोधतः ॥ " [ ] इति । तेन 'व्यतिरिक्ते नाशे जाते क्षणरूपस्य भावास्यानिवृत्तिः ' इत्यपास्तम्, यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्ति अयं लोकप्रतीतः कारण निवृत्तिरूपो विनाशः । न भावस्वभावः इत्यत्र 'नीरूपत्वाद्' इति वक्ष्यमाणो हेतुः । अभिनो न भवतीत्यतो भिन्नत्वम्, भिन्नो न भवतीत्यतोऽभिन्नत्वं चास्याऽऽपादयितुं न शक्य नीरूपे तस्मिन् कस्यापि धर्मस्याऽभावात्, किन्तु नाभिन्न इत्यनेनाभेदप्रतिषेधः, न भिन्न इत्यनेन च भेदप्रतिषेध इत्येवं भेदाऽभेदप्रतिषेधमात्रं विनाशस्य क्रियत इत्याह- भेदाभेदप्रतिषेध एवेति । उक्तार्थसंवादिनीं प्राचामुक्तिमुपदर्शयति - तदुक्तमिति । ' ह्येव ' इति स्थाने ' ह्येष ' इति पाठो युक्तः । एष विकल्पः अयं भिन्नोऽभिन्नो वेति । कथं भाव एवैष विकल्प इत्यपेक्षायामाह – विधेरितिकिञ्चिद्धर्मविधानस्य, वस्त्वनुरोधतः वस्तुस्वरूपत्वे सत्येव किञ्चिधर्मवस्वं नाऽन्यथेति, भावनिवृत्तिरूपविनाशस्य वस्तुत्वाभावान्न भिन्नोऽभिन्नो वा' इति विकल्पतः किञ्चिद्धर्मविधानं तत्रेत्यर्थः । तेन वस्तुन्येव विकल्पतः किञ्चिद्धर्मविधानं सम्भवति, न तु भावनिवृत्तिरूपे विनाशे इत्यनेन, अस्य 'अपास्तम्' इत्यनेनाऽन्वयः, तुच्छे विनाशे किञ्चिद्धर्मविनाशासम्भवाद् व्यतिरिके नाशे इत्यस्यैव वक्तुमशक्यत्वादित्याशयः । भावरूपो यस्तात्त्विको विनाशस्तदालम्बनेनैकक्षणस्थायी भावो विनाशशब्देन व्यपदिश्यत इत्याहयतश्चेति । कारणस्वरूपविनाशस्य कार्यभिन्नकालभावित्वमुपद " ,
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy