SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ]: [ ४१ सम्बन्धरूपस्याननुगतत्वादिति कल्पितैकत्वानामेव सकलकारणानां सामग्रीत्वं वाच्यम् , तद्वदस्थिरपक्षेऽप्येकक्षणोत्पन्नानां कुर्वद्रूपत्वजात्यैकीकृत्य कल्पितानां कारणानां यदि सामग्रीत्वं कल्प्यते तदा को वा सामग्रीभेद इति । एतेन 'क्षणिकानामेव हेतुत्वे तत्क्षणोत्पन्नानामुदासीनानामपि हेतुत्वं स्याद्' इति निरस्तम् , अन्वय-व्यतिरेकाभ्यां सादृश्यानुसारेणेव कार्यकारणभावव्यवहारात् तनिश्चयानु अननुगमादिति-अननुगमश्च विशेष्य-विशेषणभावे विनिगमनाविरहतोऽवसेयः।तत्सम्बन्धरूपस्य एकस्मिन् कारणेऽपरकारणरूपसम्बन्धरूपस्य सामानाधिकरण्यात्मकस्य । अननुगतत्वात् निरूपकीभूतप्रतियोग्यनुयोगिभेदेन भिन्नत्वात् , तथा चोक्तस्य सामग्रीत्वस्वरूपत्वे तस्यानेकत्वमपरिहार्यमेव । इति एतस्मात् कारणात् । कल्पितेकत्वानामेव खरूपतोऽनेकरूपाणामपि कारणानामेककार्यनिरूपितकारणत्वरूपैकधर्मवत्त्वेन यद्येकत्वं परिकल्प्यते तर्हि कल्पितैकत्वानाम् , एवकारेण वास्तविकैकत्वस्य व्यवच्छेदः । तद्वत् स्थिरपक्षवत् । कल्पितानाम् एकत्वेन कल्पितानाम् । एवं सति सामग्रीत्वस्यैकत्वात् तदालिङ्गिताया सामग्ऱ्या अप्येकत्वे न भेद इति न सामग्रीमेदात् कार्यभेद इत्याह-तदा को वा सामग्रीभेद इति । एतेनेत्यस्य 'निरस्तम्' इत्यनेनान्वयः। 'एतेन' इत्यनेनातिदिष्टमेव हेतुमुपदर्शयति-अन्वय-व्यतिरेकाभ्यामिति-यत् कार्य येन पूर्ववर्तिना सदृशं तयोरेव पूर्वापरभावापन्नयोरेकसन्तानपतितत्वमिति तयोरेवाम्वयव्यतिरकाभ्यां कार्यकारणभावव्यवहारो भवति, व्यवहारस्य व्यवहर्तव्यपूर्वकत्वात् तादृशव्यवहाररूपकार्यतस्तयोरेव कार्यकारणभाव इति निश्चयः, निश्चयश्च स्वानुभवानुरूपपूर्वक इति तदनुसारेण तत्सामर्थ्यलक्षणशक्तेः कार्यकारणभावपर्यवसिताया अनुभवस्य कल्पनात् सोऽयमनुभवः प्रतिनियतहेतुहेतुमद्भावस्य तत्तत्कार्य
SR No.022427
Book TitleAnekant Vyavastha Prakaranam Part 02
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1958
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy