SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १८] [ तत्वपोपिनावितिषिभूपित च्छेदकत्वाऽभावो नाऽयुक्तत्वनिबन्धनः, अत उक्तम्- सर्वसिद्धमिति । 'सर्वत्र विभागवाक्ये न्यूनाधिकसलयाव्यवच्छेदफलकत्वं सर्वसिद्धम्' इत्यभिधानस्य तावदेतदेव प्रयोजनम् , यदुत- “जीवाडजीवा०' इत्यादिसप्ततत्त्वविभागस्य न्यूनसङ्ख्याव्यवच्छेदकलकत्वाऽभावादयुक्तत्वमिति तदेतत्प्रयोजनमावेदयितुमाह- 'तत्रतिअस्य 'न्यूनाधिकसङ्ख्याव्यवच्छेदयोर्मध्ये' इत्यथों ग्राहः ? उत 'न्यूनाधिकसङ्ख्ययोर्मध्ये' इत्यर्थ उपादेयः? किं वा 'न्यूनाधिकसङ्ख्याव्यवच्छेदफलकत्वे' इत्यर्थ आश्रयणीयः? अथवा 'विभागवाक्ये' इत्यर्थ आकलनीयः? यत्राऽनेके पदार्था उद्दिष्टाः, उद्दिष्टानां च सेण लक्षण-परीक्षादिना निरूपणं कर्तव्यं भवति, यदिवा कस्यचिद् युक्तत्वं कस्यचिच्चायुक्तत्वमित्येवमादिकमावेदनीयं भवति, तत्रोद्देशानन्तरं 'तत्र, इत्यस्य तेषां मध्ये तयोर्मध्ये' इत्यर्थों भवति, प्रकृतेऽपि यदि विभागवाक्यस्य न्यूनसङ्ख्याव्यवच्छेदोऽधिकसलयाव्यवच्छेदश्च फलमिति पाठः पूर्वं स्यात्, न चैवम् , अतः 'तत्र' इत्यस्य 'न्यूनाधिकसङ्ख्याव्यवच्छेदयोर्मध्ये' इत्यर्थों न युक्तः, किञ्च, तयोर्मध्येऽधिकसङ्ख्याव्यवच्छेदो विद्यत इति तस्य तत्राऽन्वयो युक्त इति तदन्वयेऽभिधित्सिते सति 'आधिक्यं व्यवच्छिद्यताम्' इत्यस्य स्थाने 'अधिकसङ्ख्याव्यवच्छेदो भवतु' इति पाठो युक्तः स्यादिस्यतोऽपि सोऽर्थो न युक्तः, अत एव द्वितीयोऽप्यों न सम्भवदुक्तिकः, तस्य 'आधिक्यं व्यवच्छिताम्' इत्यत्रान्वयमम्भवेऽपि पूर्व तथाऽनुद्दिष्टत्वात् , न्यूनाधिकसकथाव्यवच्छेदफलकत्वस्य पूर्वमुक्तत्वेन तस्य 'त इति प्रत्ययप्रकृतितच्छब्देन परामर्शसम्भवतस्वतीयार्थस्य युक्तत्वेऽपि नाऽर्थप्रकर्षः कश्चिदत्र सम्भावनापथमृच्छतीत्यतश्चतुर्थोऽर्थोऽवशिष्यते, तत्र उद्देश्य-विधेयभावस्थले तत्रे. स्येवमन्वये तत्रेत्यवश्यमुपादेयम् , अन्यथा भवत्वन्यत्रोद्देश्य विधेयभावंस्थले विधेयतावच्छेदकरूपेण विधेयतासमन्याप्तरूपेण वा
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy