SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ न्यायविशारद-न्यायाचार्य-महामहोपाध्याय-श्रीमदयशोविजय गणिमणिप्रणीतं जैनतर्काभिधानम् अनेकान्तव्यस्थाप्रकरणम् । तदुपरितपोगच्छाधिपति-शासनसम्राट्-सर्वतन्त्रस्वतन्त्र-जगद्गुरु-श्रीविजयनेमिसूरीश्वरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्ने तिपदालङ्कृतेन श्रीविजय लावण्यसूरिणा विरचिता तत्त्वबोधिनी विवृतिः। 200000 यज्शाने भाति विश्वं करगतफलवद् यश्च भावारिजेता पूज्यानां यश्च पूज्यो वचनमवितथं यस्य नो बाधमेति । तं वन्दे वीरमाप्तं जिनप्रवरमहं सर्वकल्याणकन्दं देवानां देवमिद्धाभयपदल सितं स्वस्वभावैकलीनम् ॥ १ ॥ यत्कृत्यध्ययनेन मन्दमतयोऽप्यस्मादृशो व्याकृतौ काव्ये तत्वविमर्शशास्त्रनिचये चाप्तप्रवेशा अरम् । तान् सरिप्रवरान् नमामि सततं स्वाध्यायसम्पादकान् स्मृत्याऽभीष्टफलप्रदान् नवकृतौ श्रीहेमचन्द्राभिधान् ॥२॥ प्राचीनोक्तिविशारदा नवनवोन्मेषैकविद्याधनाः । श्रीमन्तो मिति-नीति-भङ्गनिपुणास्तत्त्वप्रथाकोविदाः । लद्धमैकनिकेतना बुधवराः सन्त्वत्र विघ्नापहा • ऐकारैकजपातयित्वप्रमुखाः श्रीमद्यशोबाचकाः ॥३॥
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy