SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३४४ ] [ तत्त्वबोधिनीविवृतिविभूषितम् भिन्नसम्बन्धाभ्युपगमे तस्यापि सम्बन्धान्तरगवेषणायामनिष्ठापातात्, तदभिन्नसम्बन्धाभ्युपगमे चार्थान्तरवादक्षतेः, न च व्यतिरिक्तधर्मान्तरोत्पाद-विनाशाभ्यां परिणामः साङ्खयैव्यवस्थापितः, किन्तु यत्रात्मभूतकस्वभावानुवृत्तिरवस्थाभेदश्च तत्रैव तव्यवस्था कृता, न च धर्मिणः सकाशाद् धर्मयोर्व्यतिरेके सत्येकस्वभावानुवृत्तिरस्ति, पगमेऽपि । धर्म-धर्मिणोः सम्बन्धे सति तत्सम्बद्धधर्म इति वक्तुं शक्यते, स च सम्बन्धः सम्बन्धिभ्यां भिन्नोऽभिन्नो वाऽभ्युपेयेत ? आद्येऽतिप्रसङ्गभयात् सोऽपि सम्बन्धो भिन्नसम्बन्धेन सम्बद्ध एव धर्म-धर्मिभावनियामको भवेत् , एवं सम्बन्धसम्बन्धोऽपि भिन्नसम्ब. न्धेन सम्बद्धोऽभ्युपेय इत्येवमनवस्था स्यादित्याह- धर्मिभिन्नसम्बन्धाभ्युपगम इति । तस्यापि धर्मिभिन्नसम्बन्धस्थापि, अनिष्ठापातादिति-निष्ठा विश्रान्तिस्तदभावोऽनिष्ठाऽविश्रान्तिरनवस्थेति यावत् तदापातात्तत्प्रसङ्गादित्यर्थः। सम्बन्धिभ्यां सम्बन्धोऽभिन्न इति द्वितीयपक्षे 'तदभिन्नाऽभिन्नस्य तदभिन्नत्वम्' इति नियमबलाद् धर्नाभिन्नसम्बन्धाऽभिन्नस्य धर्मस्य धर्माभिन्नत्वमिति धर्नाभिन्नस्य धर्मस्य नाशे उत्पादे च धर्मिणोऽपि नाशोत्पादाविति स्वभावान्यथात्वमेव परिणाम इति तदानीमेकान्त नित्यवादप्रच्युतिः, प्रच्यवमानोत्पद्यमानधर्मयोश्च धर्मिणोऽर्थान्तरतोपगमवादहानिश्चेत्याह- तदभिन्नसम्बन्धाभ्युपगम इति-धर्म्यभिन्नधर्मसम्बन्धाभ्युपगम इत्यर्थः। धर्मिव्यतिरिक्तधर्मिसम्बन्धिधर्मोत्पाद-विनाशाभ्यां वस्तुनः परिणामवादः साङयस्थाभीष्टोऽपिनेति तथा समर्थनेऽपसिद्धान्तापत्तिरपि तस्येत्याह। न चेति अस्य 'व्यवस्थापितः' इत्यनेनान्वयः। तर्हि तेः परिणामव्यवस्था कीदृशी कृतेति पृच्छतिकिन्त्विति । उत्तरयति-यत्रेति । तद्व्यवस्था परिणामव्यवस्था। कृता साङ्ख्यः कृता। भवतु सैव व्यवस्थाऽर्थान्तरभूतधर्माभ्युपगमेऽपीत्यत आहन चेति-अस्य 'अस्ति' इत्यनेनान्वयः। एकस्वभावानुवृत्त्यभावे हेतुमुप.
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy