________________
३०४ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् स्वगोचराऽपरित्यागेन तत्रापि तेषां विषयान्तराऽप्रवृत्तेरिति चेत् ? अत्र सम्मतिवृत्तिकृत:-"प्रत्येकमप्यपेक्षितेतरांशस्वविषयग्राहकतयैव सन्तो नयाः, तद्व्यतिरिक्तरूपतया वसन्त इति सतां सत्समुदाये सम्यक्त्वे न कश्चिद्दोषः। नन्वितरेतरविषयाऽपरित्यागवृत्तीनां कथं ज्ञानानां समुदायः सम्भवति ? येन तत्र सम्यक्त्वमभ्युपगम्येत, अनुक्तोपालम्भ एपः, नोकदाऽनेकज्ञानोत्पादतस्तेषां समुदायो विवक्षितः, अपि त्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः, 'अन्योऽन्यनिश्रिताः' इत्यनेनाप्ययमेवार्थः प्रतिपादितः, नहि तत्रापि अन्यनिश्रितसमुदायेऽपि। तेषां नयानाम् , असतोऽघधारणरूपस्य स्वविषयस्याऽपरित्यागेनैव तेषां समूहो भवति तथा च समुदायभावे न विषयान्तरं नयानामिति यद्विषयत्वेन मिथ्यात्वमसमुदितावस्थायां तद्विषयत्वस्य तदानीमपि सत्त्वेन मिथ्यात्वमेव स्यादिति शङ्काथः। अत्र उक्ताशङ्कायाम् , प्रत्येकं मिथ्यात्वे तत्समुदायेऽपि मिथ्वात्वमुररीक्रियत एव, परमपेक्षितेतरांशस्य स्वविषयस्य ग्राहकत्वेन प्रत्येकमपि सन्त एव नया अभ्युपगम्यन्ते, सतां च तेषां समुदायेऽपि सद्रूपे सम्यक्त्वमुररीक्रियत इति न कश्चिदोष इत्यर्थः। ननु शानानां योगपचं नाङ्गीक्रियत इति नयानां ज्ञानस्वरूपाणां विभिन्नकालीनानां समुदाय एककालीनो न सम्भवतीति कथं तस्य सम्यक्त्वमित्याशङ्कते- नन्विति । समाधत्ते- अनुक्तोपालम्भ एव इतिएकदा नानाज्ञानानां समुदायो भवति, तस्य सम्यक्त्वमिति नास्माभिरुक्तं येन तत्रोक्तोपालम्भो युज्यतेत्यर्थः। एतदेव स्पष्टयतिनहीति- अस्य 'विवक्षितः' इत्यनेनान्वयः। तेषां नानाज्ञानानाम् । तहि समुदायपदेन किं विवक्षितमित्यपेक्षायामाह- अपि विति। ननु गाथायाम् , "अण्णुण्णणिस्सिया" इत्युक्तं तत् कथं सङ्गमित्यत आह- अन्योऽन्यनिश्रिता इत्यनेनापीति। अयमेवार्थः अपरित्यक्तेतररूपविषया