SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २८० ] [ तत्त्वबोधिनीविवृतिविभूषितम् विशिष्टयोरभेदस्य विरोधाद् विशेषण-विशेष्यभावानुपपत्तेः शुद्धदेवदत्तव्यस्तो लक्षणा स्वीकर्तव्येत्येतदृष्टान्तबलेन " तत् त्वमसि" इतिवाक्येऽपि परोक्षत्वविशिष्टचैतन्यरूपतत्पदार्थस्य प्रत्यक्षत्वविशिष्टचैतन्यरूपत्वंपदार्थन सहाभेदविरोधादखण्डब्रह्मणि जहदजहल्लक्षणा स्वीक्रियते' इति निरूपितम् , तदपि तुच्छम्-'सोऽयं देवदत्तः' इति वाक्ये लक्षणाभ्युपगमे बीजाभावात् , तत्तेदन्ताविशिष्टयोर्भेदाभेदस्य सार्वजनीनत्वेन विरोधाभावात् , नहि प्रत्यक्षसिद्धेऽर्थे विरोधो नाम, अन्यथा चित्ररूप-चित्रज्ञानादावपि नानारूपसमावेशवाधेनाखण्डांश. मीचीनत्वं भावति- यदपीति। उक्तसमर्थनस्य तुच्छत्वे हेतुमाह'सोऽयम्' इत्यादिना तत्तेदन्ताविशिष्टयोःसर्वथाऽभेदसम्बन्धेन विशेष्यविशेषणभावो यदि 'सोऽयं देवदत्तः' इति वाक्यतः प्रतीयेत तदा विरोधः स्यात्, यदा तु कथञ्चिद्भेदाऽभेदसम्बन्धेनैव तयोविशेष्यविशेषणभाव उक्तवाक्यप्रतिपाद्यस्तदा विरोध एव नास्तीति लक्षणाबीजस्याऽन्वयानुपपत्तेस्तत्राभावाल्लक्षणैव तत्र नास्तीति दृष्टान्त. स्यैवानुपपन्नतेत्यर्थः। ननु तत्ताविशिष्टेदन्ताविशिष्टयोर्भेदे सति कथममेद इति भेदाऽभेदस्य विरोधादेव न सम्भव इति न भेदा भेदसम्बन्धेन तत्ताविशिष्टस्येदन्ताविशिष्टेऽन्वयसम्भव इत्यत आहतत्ताविशिष्टेदन्ताविशिष्टयोरिति । ययोरेकत्र प्रतीतिस्तयोर्न विरोधः, ययोश्च विरोधस्तयोःकत्र प्रतीतिरिति नियमेन यदि भेदाभेदौ विरुद्धौ स्यातां न सर्वजनानुभवविषयावेकत्र तौ भवेताम् , भवतश्च तौ तथेति न तयोर्विरोध इत्यावेदनायोक्तम्- सार्वजनीनत्वेनेति-सर्वजना. नुभवसिद्धत्वेनेत्यर्थः। यदि सर्वजनानुभवसिद्धतायामपि विरोधं कश्चिदभिदध्यात् तत्राह- नहीति । अन्यथा प्रत्यक्षसिद्धेऽप्यर्थे विरोधा. भ्युपगमे। चित्ररूपेति- एकत्र पटे नानारूपलक्षणचित्रप्रतीतिः प्रत्यक्षात्मिकोपजायत इति ततः 'चित्ररूपवान् पटः' इति वाक्यप्रयोगो
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy