________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २६५ विकल्पेन कस्याप्यर्थस्याख्यातुमशक्यत्वेऽप्युपदेशफलस्य निर्विकल्पस्वरूपबोधस्याऽसम्प्रज्ञातसमाधिसिद्धस्य प्रत्याख्यातुमशक्यत्वाद् इति तदपेक्षया नोपदेशवैफल्यमिति चेत् ? न- अविशिष्टप्रतीतेः स्वतः पुरुषार्थत्वाभावे तद्विषयब्रह्मणश्चाजन्यत्वेनोपदेशवैफल्यानुद्धारात् । किश्च, निर्विकल्पचिदेकाकारवृत्तिविषयत्वमपि ब्रह्मणो विषयताया भिन्नाभिन्नत्वविचारे दुर्घटम् । ब्रह्माकारत्वमेव ब्रह्मविषयत्वमिति ब्रह्माऽस्मि" इत्येवंरूपस्य यत् फलं निर्विकल्पस्वरूपबोधः स चासम्प्रशातसमाधौ जायत इत्यसम्प्रज्ञातसमाधिसिद्धस्य तस्य निषेद्धम. शक्यत्वादित्यर्थः। तदपेक्षया प्रतीत्यपेक्षया। अन्येच्छानधीनेच्छाविषयस्यैव पुरुषार्थत्वं भवति, विषयविनाकृतं च निर्विकल्पकज्ञानमात्रं न कस्यचिदिच्छाविषय इति तन्मात्रस्य पुरुषार्थत्वाभावान्न फलत्वम् , जन्यस्यैव च फलत्वम्, निर्विकल्पकज्ञानविषयस्तु ब्रह्म नित्यवान्न जन्यमिति तदपि न फलमित्युपदेशानर्थक्यमेवमपि स्यादेवेति प्रतिक्षिपति- नेति। भविशिष्टप्रतीतेः विषयविनिर्मुक्तज्ञानमात्रस्य । तद्विषयेति-प्रतीतिविषयेत्यर्थः। ननु केवलस्य ज्ञानस्य तद्विषयस्य च ब्रह्मणः फलत्वाभावेऽपि ब्रह्मविषयकनिर्विकल्पकावबोधस्य फलत्वं भविष्यतीत्यत आह- किञ्चेति- निर्विकल्पचिदेकाकारवृत्तिविषयत्वं ब्रह्मणो भिन्नमभिन्नं वा?, द्वैतापत्तिभिया ब्रह्मणो भिन्नं तन्नाभ्युपगन्तुं शक्यमिति नाद्यपक्षः सम्भवी, अभिन्नत्वे च ब्रह्मणो नित्यत्वेन तस्यापि नित्यत्वान्नोपदेशफलत्वं तस्येत्युपदेशवैफल्यं दुष्परिहरमिति भावः। वृत्तौ ब्रह्माकारत्वमेव ब्रह्मविषयत्वमिति तदुपहितवृत्तेरुपदेशफलत्वं स्यादिति शङ्कते- ब्रह्माकारत्वमेवेति । वृत्तों ब्रह्माकारः स वृत्त्याऽभिन्नो ब्रह्मणा वा?, आद्ये वृत्तितादात्म्यमेव तस्येति वृत्तिसम्बन्धस्तस्य समस्ति, न ब्रह्मसम्बन्धः, द्वितीये ब्रह्मतादात्म्यमेव तस्यापि ब्रह्मसम्बन्ध एव तस्य, न वृत्तिसम्बन्ध इति