SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] .[ २५५ उक्तस्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा तत्कार्यसश्चितकर्म संशय विपर्ययादीनामपि बाधितत्वादखिलसम्बन्धरहितो व्युस्थानसमये मांस-शोणित-मूत्र-पुरीषादिभाजनेन शरीरेण, आध्यादिभाजनेनेन्द्रियेण, आशनीया-पिपासा शोक मोह भाजनेनान्तःकरणेन पूर्वपूर्ववासनया क्रियमाणानि भुञ्जानोऽपि च ज्ञानाविरुद्धारब्धफलानि रहिते देशे स्थितो दीपो यथा चलनहेत्वभावानेङ्गते - न चलति, सोपमा स्मृता- स दृष्टान्तश्चिन्तितो योगः। कस्य ? योगिनः, एकाग्रभूमौ सम्प्रज्ञातसमाधिमतोऽभ्यासपाटवाद् यतचित्तस्यनिरुद्धसर्वचित्तवृत्तः, असम्प्रज्ञातसमाधिरूपं योगम् , निरोधभूमौ युअतः-अनुतिष्टतः, य आत्माऽन्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्यर्थः, आत्मनो योगं युअत इति व्याख्याने दार्शन्तिकात्मनः सर्वावस्थस्यापि चित्तस्य सर्वदा. त्माकारतयाऽऽत्मपदवैयर्थ्य च, नहि योगेनात्माकारता चित्तस्य सम्पाद्यते किन्तु स्वत एवात्माकारस्थ सतो नात्माकारता निवर्त्यत इति, तस्माद् दार्शन्तिकलाभप्रतिपादनार्थमेवात्मपदम्. यतचित्तस्येति भावपरो निर्देशः, कर्मधारयो वा, यतस्य चित्तस्येत्यर्थः" इति। 'तत् त्वमसि' 'अहं ब्रह्माऽस्मि' इति महावाक्यजन्याखण्डब्रह्माकारकारितवृत्तिप्रतिबिम्बितचैतन्यलक्षणज्ञानतो निर्विकल्पकसमाधिप्राप्तः पुरुषो जीवन्मुक्तो भवतीत्याह- उक्तस्वस्वरूपेति । तदज्ञानबाधनद्वारा अखण्डब्रह्मस्वरूपाज्ञानलक्षणाविद्याबाधनद्वारा। तत्कार्येतिब्रह्माज्ञानकार्येत्यर्थः। अखिलसम्बन्धरहित इति-स्वयमसङ्गो ह्ययं पुरुषः केवलमविद्या-तत्कार्यलक्षणोपाधिविगमे च भवत्यखिलसम्बन्धरहित इत्यर्थः। नन्वेवं निर्विकल्पकसमाध्युत्थितस्य शरीरादिकं यदुपलभ्यते तस्य का वार्तेत्यत आह- व्युत्थानसमय इति । ‘भुजानोऽपि' इत्यत्र 'पश्यन्नपि ' इत्यत्र च 'अखिलसम्बन्धरहितः' अन्वेति । ‘पश्यन्नपि
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy