________________
अनेकान्तव्यवस्थाप्रकरणम् ]
निर्विकल्पकथ, आद्यो ज्ञातृ-ज्ञानादिविकल्पलयानपेक्षतयाऽद्वितीये तद्राकारकारिताया वृत्तेरवस्थानम्, मृन्मयगजादिमानेऽपि मृज्ज्ञानवद् द्वैतभानेऽप्यद्वैतवस्तुभानाभ्युपगमः, तदुक्तमभिनीयदृशिखरूपं गगनोपमं वरं सत् तद् विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्तः " ॥ १॥ इति [ मुक्तिकोपनिषद्, २, ७३ ]
46
[ २५१:
विभज्य दर्शयति- समाधिरिति । सविकल्पक समाधिं लक्षयति- आय इति- अद्वितीये वस्तुनि अद्वितीयवस्त्वाकारितवृत्तेरवस्थानं यदा भवति तदानीं ध्यातुः प्रमातुर्ज्ञानादेश्च विकल्पोऽपि भवति, न तु तस्य तदानीं लयः, एतादृशं यद् ध्येयाद्वितीयवस्त्वाकार कारितवृत्त्यवस्थानं स सविकल्पक समाधिरभिधीयत इत्यर्थः । कथमद्वितीयवस्तुमानसमये द्वितीयवस्तुभानं ? येनैतादृशसविकल्पकसमाधिस्वरूपमभ्युपगमपथमागच्छेदित्यत आह-मृन्मयेति । ज्ञातृ-ज्ञानादिविकल्पोपेताऽद्वितीयब्रह्माकारवृत्त्यवस्थानस्वरूप स विकल्पकसमाधौ
प्राचां संवादमुपदर्शयति - तदुक्तमिति । ' दृशः स्वरूपम्' इति वक्तव्ये 'दृशि स्वरूपम्' इति व्यस्तम्, हशिशब्दो वा चैतन्यवाचीति विचारणीयम्, कीदृशं चित्स्वरूपम् ? गगनोपनं गगनवद् व्यापकम् । वरं सर्वापेक्षयोस्कृष्टम्, न तदपेक्षया किञ्चिदुत्कृष्टं समस्ति । सत् परमार्थसत्स्वरूपम् । तद् विभातं तु, प्रकाशमानं तद् रूपं तु, अजं नित्यम्, एक्मद्वितीयम्, अक्षरमविनाशि, अपकं कामक्रोधादिलेपरहितम्, सर्वगतं सर्वत्रापि 'सत् सत्' इति प्रतिपत्तेः सर्वव्यापकं सम्यमि वा एवम्भूतं यद् अद्वयमद्वितीयं ब्रह्म, तदेव च तदात्मकमेव च, अहं प्रत्य• गात्मा, सततं सर्वदा, विमुक्तः मायालक्षणबन्धरहितः, एतादृक्प्रत्यवस्थानं यद् भवति तत्र द्वितीयस्य शात्रादेरपि विकल्पसद्भावात् सविकल्पसमाधिरसाविति ॥