SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ [ तत्त्वबोधिनी विवृतिविभूषितम् ब्रह्मण्यज्ञाननाशाय, वृत्तिव्याप्तिरपेक्षिता " ॥ इति, 46 स्वयं प्रकाशमानत्वान्नाऽऽभास उपपद्यते " ॥ इति च । [ पञ्चदशीतृप्तिदी ० ९० ] २४४ ] 46 व्याप्यत्वं दर्शयति- बुद्धि-तदिति । उभयव्याप्तेः प्रयोजनमाह-तत्रेति । तत्र तयोर्बुद्धि- चिदाभासयोर्मध्ये, धिया बुद्धिवृत्त्या प्रमाणभूतया अज्ञानं नश्यति, ज्ञानाऽज्ञानयोर्विरोधात्, आभासेन चिदाभासेन, घटः स्फुरेत्, जडत्वेन स्वतः स्फुरणाऽयोगादिति भावः ॥२॥ इदानीमात्मनि ततो वैलक्षण्यं दर्शयति- ब्रह्मणीति - प्रत्यगूब्रह्मणोरेकत्वस्याज्ञानेनावृतत्वात् तस्याज्ञानस्य निवृत्तये वाक्यजन्यया 'अहं ब्रह्मास्मि' इत्येवमाकारया धीवृत्त्या व्याप्तिरपेक्ष्यते, स्वस्यैव स्फुरणरूपत्वात् तत्स्फुरणाय चिदाभासो नापेक्ष्यते, अतो युज्यमानोऽपि चिदाभासो नोपयुज्यत इत्यर्थः ॥३॥ ११८ ॥ प्रकृतर्थोपपादकमेतदनन्तरपद्यत्रयं यथा "चक्षुर्दीपावपेक्ष्येते, घटादेर्दर्शने यथा । न दीपदर्शने किन्तु चक्षुरेकमपेक्ष्यते " ॥९३॥ व्याख्या - उक्तमर्थ दृष्टान्तप्रदर्शनेन विशदयति-अन्धकारावृतघटादिदर्शने चक्षुर्दीपावुभावपि अपेक्ष्येते, दीपदर्शने तु तथा न, किन्तु एकं चक्षुरेवापेक्ष्यते यथा तथा ब्रह्मयज्ञाननाशात पूर्वेण सम्बन्धः ॥९३॥ "स्थितोऽप्यसौ चिदाभासो, ब्रह्मण्येकीभवेत् परम् । न तु ब्रह्मण्यतिशयं फलं कुर्याद् घटादिवत् ॥ १९४॥ व्याख्या - ननु बुद्धि-तवृत्तीनां चिदाभास वैशिष्ट्यस्वाभाव्याद् घटादिष्विव ब्रह्मण्यपि फलव्याप्तिर्बलाद् भवेदित्याशङ्कयाह-स्थितोऽपीति - यद्यपि घटाद्याकारवृत्तिवद् ब्रह्मगोचरवृत्तावपि चिदाभासोsस्ति, तथापि नासौ ब्रह्मणो भेदेन भासते, किन्तु प्रचण्डातपमध्य
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy