________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २४१
9
काराकारिता चित्तवृत्तिरुदेति सा तु चित्प्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते, तदा
महावाक्यार्थबोधोऽव सातव्यः, तत्र 'तत् त्वमसि' इति वाक्यतः शुद्धचैतन्यरूपतयाऽवगतस्य स्वात्मनः 'अहं ब्रह्मास्मि' इति वाक्यतो यथा चित्तवृत्तिरुदेति तथोपदर्शयति- एवमिति । 'अहं ब्रह्माऽस्मीति वाक्याद्' इत्यस्य 'चित्तवृत्तिरुदेति' इत्यनेनान्वयः । न सर्वस्य ततोऽखण्डाकारचित्तवृत्तेरुदयः, किन्तु शम-दम- तितिक्षोपरम-समाधान श्रद्धादिगुणसम्पन्नस्यैव कस्यचिदित्याह - अधिकारिण इति । नित्येति - नित्यत्वं कालपरिच्छेदराहित्यम्, शुद्धत्वं निर्लेपत्वं विशेषणविशेष्यभावादिरहितत्वं वा; बुद्धत्वं चैतन्यस्वरूपत्वम्, मुक्तत्वं सत्त्वादित्रिगुणमायाबन्धरहितत्वम्, सत्यत्वं त्रिकालाबाध्यत्वम्, स्वभावपरमानन्दत्वं विषयादिनिमित्तानपेक्षानन्द स्वरूपत्वम्, अद्वयत्वं सजातीय-विजातीयद्वितीयमात्ररहितत्वम्, निरुक्तधर्माणां सर्वेषामप्याधारभूतब्रह्माभिन्नत्वमेवेति तदास्पदस्य ब्रह्मणो न सद्वितीयत्वम्, एवम्भूतं यद् ब्रह्म सर्वव्यापकं तदहमस्मीत्येवमखण्डाकारैकस्वभावा चित्तवृत्तिः ' अहं ब्रह्मास्मि' इति वाक्यादधिकारिणः पुरुषस्योद्भवतीत्यर्थः । सा तु निरुक्ताखण्डाकारा चित्तवृत्तिः, निर्मलसत्त्वप्रधानायां तस्यां निर्मलदर्पणे यथा मुखं प्रतिबिम्बते तथा चैतन्यं प्रतिबिम्बत इति चित्प्रतिबिम्बसहिता सती, शरीरादितः प्रतीपमञ्चतीति प्रत्यग् आत्मा, तदभिन्नं यद अज्ञातमज्ञानविषयीभूतं परब्रह्म शुद्धचैतन्यम्, तद् विषयीकृत्य, तद्गताज्ञानमेव शुद्धचैतन्यगताज्ञानमेव, बाधते निवर्तयति, ब्रह्मविषयकस्य ब्रह्मगतस्य चाऽविद्यालक्षणाऽज्ञानस्य ब्रह्मविषयकविद्यारूपयोक्ताखण्डाकारचित्प्रतिविम्बोपेतदृत्यैव निवर्तनं युक्तमित्यर्थः । भवतूक्तवृत्त्या ब्रह्मगताऽज्ञाननिवृत्तिः, ब्रह्मगताज्ञानजनितं च जगद्रूपं ब्रह्मणि पूर्ववदनुवर्तेतैवेत्यत आह- तदेति- ब्रह्मगताज्ञानबाधकाल इत्यर्थः । उपादानकारणनिवृत्तावुपादेयं निवर्तत एव यथा ૧૬