SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २३२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् पहितं वैश्वानरादीश्वरपर्यन्तं चैतन्यमप्यवान्तरवनावच्छिन्नाकाशवदवान्तरजलाशयप्रतिबिम्बाकाशवञ्चैकमेव । अयमर्थाध्यारोपः । एवं प्रत्यगात्मनि चार्वाकाद्यभिमतः स्थूलशरीराद्यध्यारोपोऽपि द्रष्टव्यः । अथाऽपवादो नाम रज्जुविवर्तसर्पस्य रज्जुमात्रत्ववद् वस्तुविवर्तस्यावस्तुनोऽज्ञदेशना प्रपञ्चस्य वस्तुमात्रत्वम्, तथाहिभोगायतनचतुर्विधशरीर भोग्यरूपान्नादि - तदाश्रय चतुर्दशभुवन-तदाश्रयत्रह्माण्डादि सर्व कारणीभूतपञ्चीकृतभूतमात्रं भवति, शब्दादिविषयसहितानि पञ्चीकृतभूतजातानि सूक्ष्मशरीरजातं चेत्येतत् सर्व त्मकसमष्टयुपहितम् । अयमर्थाध्यारोप इति समष्टि-व्यष्टीनां तदुपहितचैतन्यानां स्थूलसूक्ष्मकारणप्रपञ्चमहाप्रपञ्च योस्तदुपहितचैतन्यस्य च योऽयमभेदारोपो दर्शितः सोऽर्थाध्यारोप इत्यर्थः । चार्वाको हि स्थूलशरीरादिकमेवात्मनमभिमन्यते, सोऽपि शरीराद्यभिन्नतयाऽऽत्मज्ञानमर्थाध्यारोप इत्याह- एवमिति । अध्यारोपाऽपवादाभ्यां ' तत्-त्वं' पदार्थशोधनं भवति, तत्रैतावताऽध्यारोपो भावितः अथाऽपवादस्वरूपं भावयति - अथाऽपवादो नामेति । वस्तुविवर्तस्येति- त्रिकालाबाध्यत्वेन पारमार्थिकसद्रूपं ब्रह्मैष वस्तु, तद्विवर्तस्येत्यर्थः । कारणसमसत्ताकं कार्य परिणामः, यथा - अविद्याया व्यावहारिकसद्रूपाया व्यावहारिकसद्रूपं जगत्कार्य परिणामः, कारणविषमसत्ताकं कार्य विवर्तः, यथा ब्रह्मरूपनिमित्तकारणस्य सत्ता पारमार्थिकी, तन्न्यून रकसत्ताकं जग• लक्षणकार्य तस्य विवर्त इति, स्थूलरूपस्य लये सूक्ष्मावस्थानम्, तस्यापि क्रमशो लये परब्रह्मण पवावस्थानम्, परब्रह्मवाज्ञान रूपशक्तिबलात् सूक्ष्मस्थूलात्मकजगद्रूपेणाऽवभासत इत्यज्ञानात्मकशक्तिविलये तत्कार्यस्य सर्वस्यापि विलयतः शुद्धं ब्रह्मवावतिष्ठत इत्यतः सर्वस्याप्यवस्तुनो वस्तुमात्रत्वमिति भावयति - तथाद्दीत्यादिना - कार्य •.18!
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy