SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २१२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् तदाहुरेतन्नयानुयायिनः 'अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवताशब्दैः, समं प्राहुर्गवादिषु ।। घटादीनां न चाकारान्, प्रत्याययति वाचकः। वस्तुमात्रनिवेशित्वात् , तद्गतिर्नान्तरीयकैः" । इति । [वाक्यपदीयकाण्ड० २; १२१, १२५] एतनयमाश्रित्य चिदानन्दैकरससदद्वेतप्रतिपादकं वेदान्तदर्शन उक्तार्थे हरिवाक्यं संवादकतयोपदर्शयति- तदाहुरिति । एतन्नयानुयायिनः सङ्गहनयानुसारिणः। सर्वशब्दानां गो-घट-पटाद्यखिलशब्दानाम् । प्रत्याय्यलक्षणं प्रतीतियोग्यस्वरूपम् । अस्त्यर्थः अस्तीतिक्रियाप्रतिपाद्य: सत्तात्मकार्थः। अपूर्वदेवताशब्दैः अस्मदादीन्द्रियजन्यप्रत्यक्षाऽविषयाऽदृष्टदेवतादिप्रतिपादकशब्दैः। समं सह । गवादिषु अस्मदादिप्रत्यक्षविषय. गवाद्यर्थकतया सम्मतेषु गो घटादिशब्देषु । प्राहुः प्रकृष्टतया वदन्ति ॥ कथमस्त्यर्थ एव सर्वशब्दानां प्रत्याय्यस्वरूपमित्यपेक्षायामाहघटादीनामिति । वाचको घटादिशब्दः, घटादीनाम् , भाकारान् प्रतिनियतपृथुबुध्नोदराद्याकारान् न प्रत्याययति । कथं न शापयतीत्यपेक्षायामाहवस्तुमात्रनिवेशित्वादिति-घटादिशब्दं श्रुत्वा अस्ति कश्चिदर्थ इत्येवमेव प्रतीयते वस्तुमात्रम्, ततो वस्तुमात्रनिवेशिन एवैते शब्दाः, यदि वस्तुमात्रनिवेशित्वेन अस्त्यर्थ एव सर्वशब्दानां प्रतीयमानत्वात् प्रत्याय्यस्वरूपं तर्हि 'गामानय' इत्यादिशब्दं श्रुतवतो विशिष्याकार. विशेषशालिपदार्थानयनादिक्रिया तथाभूताकारक्षानमन्तरेण न भवे. देवेत्यत आह- तद्गतिर्नान्तरीयकैरिति- सर्वाव्यभिचारिसत्सामान्यरूपार्थक्रोडीकृतत्वेन नान्तरीयकैरवान्तरसत्ताविशेषलक्षणैर्घटत्व-पटत्वादिभिराकारविशेषावगतिः, ततश्च प्रतिनियतव्यवहारोपपत्तिरित्यर्थः॥
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy