SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २०० ] [ तत्त्वबोधिनीविवृतिविभूषितम् इति धीर्जायमाना नोपपद्यत, अतिरिक्ताधारतापक्षेतूक्तप्रतीतेराधारत्वासंसर्गकत्वादेव न विपरीतधीविरोधित्वमिति न दोषः। तत्र तत्सम्बन्धवत्त्वे कथमाधारतया तदभाव इति चेत् ? तत्र तवृत्तितानियामकसम्बन्धस्यैव तत्र तद्वत्तानियामकत्वादिति संक्षेपः ।। प्रतियोगित्वमप्यतिरिच्यते, दण्डाऽभावादेः प्रतियोगित्वस्य दण्डादिस्वरूपत्वे गौरवात् , संयोगसम्बन्धावच्छिन्नघटाभावादिप्रयोन' इति बुद्धिं प्रति प्रतिबन्धकत्वम् , कुण्डप्रतियोगिक संयोगसम्ब. न्धेन कुण्डप्रकारबुद्धश्च नाधारतासंसर्गेण कुण्डप्रकारकत्वम् , अत. स्तस्या अप्रतिबन्धकत्वाद् 'बदरे न कुण्डम्' इति बुद्धिस्तत्काले जायमानोपपद्यतेतरामित्यर्थः। उक्तप्रतीतेः कुण्डादिप्रतियोगिक संयोगेन बदरादौ कुण्डप्रकारकबुद्धेः। तत्र बदरे। तत्सम्बन्धवत्त्वे कुण्डसम्बन्धकुण्ड संयोगवत्त्वे । तदभावः कुण्डाभावः। कुण्डसम्बन्धो यः संयोगलक्षणो बदरे सन कुण्डवृत्तितानियामकः, तत्र तत्तितानियामकसम्बन्ध एव तत्र तद्वत्तानियामक इति वृत्तिनियामकसम्बन्धाभावादेव न बदरे कुण्डवत्तत्याह- तत्रेति॥ प्रतियोगित्वस्याऽप्यतिरिक्तस्य सद्भावात् षट्पदार्थीवादो वैशेषिकाणां न युक्त इत्याह- प्रतियोगित्वमप्यतिरिच्यत इति। ननु प्रति. योगिता क्लप्तप्रतियोगिस्वरूपैव, तस्या अतिरिक्तत्वे मानाऽभावादित्यत आह- दण्डाऽभावादेरिति-बहूनां दण्डादीनां प्रतियोगिनां प्रतियोगितास्वरूपत्वकल्पनापेक्षया तस्या अतिरिक्तत्वे लाघवादित्याशयः। किञ्च, संयोगसम्बन्धावच्छिन्नघटाभावप्रतियोगिता घटस्वरूपा, समवायसम्बन्धावच्छिन्नघटाभावप्रतियोगिताऽपि घटस्वरूपेति तदभिन्नाभिन्नस्य तदभिन्नत्वम्' इति नियमेन तयोः प्रतियोगित्वयोरैक्ये समवायसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावस्य संयोगसम्ब
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy