________________
.
१७८ ]
[ तत्त्वबोधिनीविवृतिविभूषितम् घटादौ तत्संयोगस्य विनिगमनाविरहात् कालिकेन दैशिकेन च कारणत्वं तदा तत्रैकैकव्यापकतागर्भमेकैकमेव कारणत्वम्, तत्रैव व्यापकताद्वयगर्भमेकं कारणत्वम् ।
धूमत्वाद्याश्रया यावन्तः प्रत्येक तत्तदव्यवहितपूर्वकालावच्छेदेन तत्तदधिकरणे तत्तत्सम्बन्धेन सम्बन्धिवृत्तिरूपवत्वमेव वा तत् , यावत्साधनाश्रयाश्रितत्वस्य व्यापकतारूपत्वात् । कालिकेन कारण
अत्यन्ताभावाद्यनिवेशेन लाघत्वात् कारणत्वस्य लक्षणान्तरमाहधूमत्वाद्याश्रया यावन्त इति- 'धूमत्वादि' इत्यादिपदाद् घटत्वादीनां कार्यतापच्छेदकधर्माणामुपग्रहः, तत्र धूमत्वावच्छिन्नं प्रति वह्नित्वावच्छि. नस्य कारणत्वे इत्थं लक्षणसंगमनम् - धूमत्वाश्रया यावन्तः पर्व. तीयधूमादयः प्रत्येकं पर्वतीयतत्तधूमव्यक्तित्वादिरूपेण तत्तधूमा. व्यवहितपूर्वकालावच्छेदेन, अस्य 'सम्बन्धि' इत्युत्तरेण सम्बन्धः, तत्तदधिकरणे पवतीयतत्तधूमादिव्यत्यधिकरणे तत्तत्पर्वतादौ तत्तत्सम्बन्धेन कारणतावच्छेदकसंयोगसम्बन्धेन सम्बन्धी यः पर्वतीयतत्तद्वयादिस्तद्वृत्तिरूपं तत्तद्वह्निव्यक्तित्वादिकं वह्नित्वसामान्यं च तद्वत्त्वं वह्नौ समस्तीति लक्षणसमन्वयः।
अत्रापि कार्यव्यापकत्वं कारणस्यायातमेवेत्याह- यावत्साधनेतिअत्र साधनं कार्यमेव, तस्य कारणानुमापकत्वात् साधनत्वं बोध्यम् । ननु यत् कालिकसम्बन्धेन कारणं तत् कार्यस्याव्यवहितपूर्वकालावच्छेदेन पूर्वकाले वर्तते, पूर्वकालश्च न कार्याधिकरणम् , किन्तु यत्क्षणे कार्यमुत्पद्यते तत्क्षण-तदुत्तरक्षणयोरेव कार्याधिकरणत्वम्, तवृत्तौ चासमकालत्वात् कार्याव्यवहितपूर्वकालो नावच्छेदक इति तत्तदव्यवहितपूर्वकालावच्छेदेन तत्तत्कार्याधिकरणे काले कालिकसम्ब. न्धेन सम्बन्धि कारणं न भवतीति तद्वृत्तिरूपवत्वं न कारणे इत्युक्त. लक्षणस्य तत्राव्याप्तिरित्यत आह- कालिकेन कारणमपीति- यो दिनमासादिलक्षणः स्थूलकालः कार्यस्य पूर्वकाले कार्यकाले च वर्तते