SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अतेकान्तव्यवस्थाप्रकरणम् ] [ १६९ व्यापकताशालितत्तद्धूमादेर्मिथो हेतुत्ववारणाय कालिकव्यापकत्वनिवेशः, अत एव दैशिक-कालिकव्यापकताद्वयगर्भमेकमेव कारणत्वमिति वदन्ति । वच्छेकत्वस्य नियतपूर्ववर्तितावच्छेदकविशेषणतयोपादाने चेत्यर्थः । दैशिकेति यद्देशे पर्वतादिस्वरूपे पर्वतीयधूमो वर्तते पर्वतीयवह्निरपि वर्तत इति पर्वतीयधूमाधिकरण देशवृत्त्यत्यन्ताभावप्रतियोगितानवच्छेदकपर्वतीयवह्नित्ववत्त्वलक्षणपर्वतीयधूमनिरूपितकारणत्वं यथा पर्वतीयवस्तथा पर्वतीयवह्नयधिकरणदेशवृत्त्यत्यन्ताभावप्रतियोगिता नवच्छेदकपर्वतीयधूमत्ववत्त्वलक्षणपर्वतीयवह्निनिरूपितकारणत्वं पर्वतीयधूमेऽपि वर्तत इति पर्वतीयधूमस्य कारणं वह्निरिव पर्वतीयवह्निकारणं पर्वतीय धूमो ऽपि स्यादित्येवमेकदेशवर्तितत्तद्धूमादेर्मिथः कारणत्वापत्तेर्वारणाय कालिक व्यापकत्वस्यापि कारणत्वलक्षणे निवेशः, तथा च तद्धूमाव्यवहितप्राक्क्षणे यथा तद्रह्नेः सत्त्वात् कालिकतधूमव्यापकत्वं तद्वह्नौ समस्ति न तथा कालिकतद्वह्निव्यापकत्वं तद्भूमे तस्य तद्वह्नयधिकरणदेशे तद्वह्नयव्यवहितप्राक् क्षणावच्छेदेनाऽसत्त्वेन कालिकतद्वह्निव्यापकत्वस्याभावादित्यर्थः । अत एव दैशिकव्यापक व कालिकव्यापकत्वोभयस्य कारणत्वलक्षणे निवेशस्यावश्यकत्वादेव । कारणत्वस्य निष्कृष्टुं लक्षणं दर्शयति- वस्तुत इति । धूमाद्याश्रया इतिअत्र 'धूमत्वादि' इत्यादिपदात् तत्तत्कार्यतावच्छेदकानां घटत्वादीनां ग्रहणम्, इदं लक्षणं धूमात्वावच्छिन्नं प्रति कारणत्वं वह्नित्वेन वह्नेर्यत् तत्रेत्थं समनुगतम् - धूमत्वाश्रया यावन्तः पर्वतीय- महानसीयादिधूमव्यक्तयः प्रत्येकं तत्तद्धूमव्यक्तित्वेन रूपेण तत्तधूमाव्यवहितप्राकक्षणावच्छेदेन तत्तत्पर्वतीयधूमादिव्यक्ती नामधिकरणे तत्तत्पर्वत- महानसादिदेशे विशेषणतया अभावप्रतियोगिकस्वरूपसम्बन्धेन वर्तमानोऽभावो न संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताकाभावः किन्तु संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्न
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy