SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १६२ ] [ तत्त्वबोधिनीविवृतिविभूषितम् सम्बन्धलाघवाद् दण्डादिनाऽऽवश्यकेन दण्डरूपादेरित एवान्यथासिद्धौ प्रथमवैयर्थ्यम् ? तल्लाघवकृतावश्यकत्वस्यात्राप्रवेशात् ॥३॥ यमादायव यस्यान्वय-व्यतिरेको गृह्येते तेन तद् अन्यथासिद्धमिति चतुर्थम् , यथा-घटं प्रति दण्डेन दण्डत्वम् , आद्येऽवच्छेदकेनावच्छेद्यस्यात्र चावच्छेद्येनावच्छेदकस्यान्यथासिद्धिरिति भेदः ॥४॥ देरन्यथासिद्धत्वे तदर्थम् 'येन सहैव यस्य यं प्रति पूर्ववर्तित्वं गृह्यते तदन्यथासिद्धम्' इति प्रथमान्यथासिद्धपरिकल्पनं व्यर्थमित्याशङ्कां प्रतिक्षिपति-न चेति । एवम् उक्तप्रकारेण । इत एव तृतीयान्यथासिद्धित एव । निषेधे हेतुमाह-तलाघवकृतेति- सम्बन्धलाघवकृतेत्यर्थः। भत्र तृतीयान्यथासिद्धिलक्षणे सम्बन्धलाघवकृतावश्यकत्वस्य तृतीयान्यथासिद्धिलक्षणे प्रवेशे प्रथमान्यथासिद्धरनेनैव गतार्थत्वे प्रथमान्यथासिद्धिमुपादाय प्राचां पश्चान्यथासिद्धिप्रवादो भज्यतेति तत्प्रवाद. रक्षणमेव तदप्रवेशबीजमिति भावः ॥३॥ चतुर्थान्यथासिद्धिं निरूपति- यमदायैवेति। उदाहरति- यथेति। यमदायैव दण्डमादायव, यस्य दण्डत्वस्य, अन्वय-व्यतिरेको गृह्येते, तेन दण्डेन तद् दण्डत्वमन्यथासिद्धमित्येवं लक्षणसमन्वयः। प्रथमान्यथासिद्धितस्तुरीयान्यथासिद्धलक्षण्यं दर्शयति- आद्य इति-प्रथमान्यथासिद्धौ दण्डरूपनिष्ठकारणत्वे दण्डस्य विशेषणत्वादवच्छेदकत्वं रूपस्य विशेष्यत्वादवच्छेद्यत्वं 'दण्डरूपं घटपूर्ववर्ति' इति प्रतीतौ भासत इत्यवच्छेदकेन दण्डेनावच्छेद्यस्य तद्रूपस्यान्यथासिद्धिः, चतुर्थे दण्डत्वस्य कारणत्वे दण्डत्वस्याखण्डस्य पूर्ववर्तित्वग्रहे न किमप्यवच्छेदकतया भासत इति 'दण्डः घटपूर्ववर्ती' इत्येव ग्रहो दण्डत्वस्यापि पूर्ववर्तित्वग्रहरूपो वाच्यः, तत्र विशेषणतया भासमानस्य दण्डत्वस्थावच्छेदकत्वं विशेष्यतया भासमानस्य दण्डस्यावच्छेद्यत्वमित्यघच्छेद्येन दण्डेनावच्छेदकस्य दण्डत्वस्यान्यथासिद्धिरित्येवं प्रथमचतुर्थान्यथासिद्धयोर्भेद इत्यर्थः ॥४॥
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy