SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १६० ] [ तत्त्वबोधिनीविवृत्तिविभूषितम् भावः किं नान्यथासिद्धः पृथगन्वयव्यतिरेकसाहित्यराहित्ययोरुभयत्र तौल्यात् , मैवम्-'अन्यत्र क्लप्त०' इत्यस्य 'अवश्यक्लप्त०' इत्यर्थकरणात् , अवश्यक्लप्तश्च गन्धप्रागभाव एव, गन्धरूपप्रतियोग्युपस्थितौ शीघ्रोपस्थितिलाघवात् , इत एव महत्त्वस्यान्यत्र क्लप्तत्वातद्वारणाय सत्यन्तम् , तथा च दण्ड-चक्रादीनां पृथगन्वय-व्यतिरेकवत्त्वस्यैव भावेन तद्राहित्याभावान्नान्यथासिद्धिप्रसङ्गः । इत्थं तृतीयान्यथासिद्धिनिर्वचने परः शङ्कते- हन्त ! एवमिति- गन्धप्रागभावेन रूपभागभावस्यान्यथासिद्धीकरणे यथा पृथगन्वय-व्यतिरेकराहित्यं रूपप्रागभावे, गन्धप्रागभावसत्त्वे नियमतो रूपप्रागभावसत्त्वमिति कृत्या, तथा रूपप्रागभावसत्त्वे नियमतो गन्धप्रागभावसत्त्वमित्यतो गन्धप्रागभावेऽपि पृथगन्वय-व्यतिरेकराहित्यं समस्ति, यथा चान्यत्रक्लप्तनियतपूर्ववर्तिताकस्य गन्धप्रागभावस्य साहित्यं रूपप्रागभावे, तथाऽन्यत्रक्लप्तनियतपूर्ववर्तिताकस्य रूपप्रागभावस्य साहित्यं गन्धप्रागभावेऽपीत्युभयत्र लक्षणसद्भावाद् गन्धप्रागभावेन पाकजगन्धं प्रति यथा रूपप्रागभावोऽन्यथासिद्धस्तथा तं प्रत्येव रूपप्रागभावेन गन्धाभावोऽप्यन्यथासिद्धः स्यादित्यर्थः। समाधत्ते- मवमिति । गन्ध प्रति गन्धप्रागभाव एवावश्यक्लप्तो न रूपप्रागभाव इत्यत्र किं विनिगमकमित्यपेक्षायामाह- गन्धरूपेति- यस्य कारणत्वकल्पने लाघवं सोऽवश्यक्लप्त इति, लाघवं च शरीरकृतं सम्बन्धकृतमुपस्थितिकृतं चेति, प्रकृते गन्धं प्रति कारणत्वविचारे गन्धरूपप्रतियोगिज्ञानसद्भावाद् गन्धप्रागभावो झटित्युपस्थितो भवति, गन्धरूपसह. चरितज्ञानतश्च रूपात्मकप्रतियोगिन उपस्थितौ रूपप्रागभावोपस्थितिर्भवतीति रूपप्रागभावस्तदपेक्षया विलम्बोपस्थितिक इत्येव मुपस्थितिकृतलाघवसद्भावाद् गन्धप्रागभाव एवाऽवश्यक्लप्तनियतपूर्ववर्तिताक इति तत्सहभूतत्वाद् रूपप्रागभावस्य पाकजगन्धं प्रत्यन्यथासिद्धत्वमित्यर्थः। इत एव लाघवतोऽवश्यक्लप्तत्वस्यादरणादेव,
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy