SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] क्लृप्त०' इत्यादिनैव । न चैवं मननव्यापारकश्रवणत्व-भ्रमिजनकत्वादिना जनकत्वानुपपत्तिः १ 'अन्यं प्रति पूर्ववर्तित्व एव०' इत्यत्र फलाननुगुणमन्यं प्रतीति वाच्यत्वात् । दीधितिकृतस्तु - " फलाननुगुणमन्यं प्रतीति न वाच्यम्, अत एव परामर्शजनकत्वेन तद्व्याप्तिज्ञानानां न कारणत्वमे तदन्यथासिद्धेः । [ १५७ " ननु मननव्यापारकश्रवणेत्वेन रूपेणात्मश्रवणस्यात्मसाक्षात्कारं प्रति कारणत्वम्, भ्रमिजनकत्वेन रूपेण दण्डस्य घटं प्रति कारणत्वं च न स्यात्, मननव्यापारकश्रवणत्वावच्छिन्नस्यात्मश्रवणस्यात्मसाक्षात्कारं प्रति पूर्ववर्तित्वग्रहो मननं प्रति पूर्ववर्तित्वग्रहनियत इति निरुक्तद्वितीयान्यथासिद्धिलक्षणाक्रान्तत्वात् एवं भ्रमिजनकत्वावच्छिन्नस्य दण्डस्य घटं प्रति पूर्ववर्तित्वग्रहो भ्रमिं प्रति पूर्ववर्तित्वग्रह नियत इति तस्यापि निरुक्तान्यथासिद्धिमत्त्वादित्याशङ्क्य प्रतिक्षिपति - न चैवमिति । 'अन्यम्' इत्यस्य फलाननुगुणमिति विशेषणं दीयते, मननमात्मसाक्षात्काररूपफलानुगुणम्, भ्रमिश्च घटात्मकफलानुगुणेति फलाननुगुणान्यशब्देन मननभ्रम्यादेर्धारणाऽसम्भवादुक्तलक्षणाभावान्न निरुक्तान्यथासिद्धत्वं श्रवणदण्डादीनामिति मननव्यापारकत्वेन श्रवणस्य, भ्रमिजनकत्वेन दण्डस्य च कारणत्वं निर्वहत्येवेति प्रतिक्षेपहेतुमाह - भन्यं प्रतीति । ' दीधितिकृतस्तु' इत्यस्य 'आहुः' इत्यनेन सम्बन्धः । फलाननुगुणत्वस्यान्यविशेषणतयाऽविवक्षितत्वादिव । ' अन्यं प्रति०' इत्यादिद्वितीयान्यथासिद्धेः, परामर्शजन त्वावच्छिम्नस्य तत्तद्व्याप्तिज्ञानस्यानुमितिं प्रति पूर्ववर्तित्वग्रहः परामर्श प्रति पूर्ववर्तित्वग्रहनियत इति परामर्शजनकत्वावच्छिन्नं तत्तद्व्याप्तिज्ञानमन्यथासिद्धमित्येवं लक्षणसद्भावात्, 'अन्यम्' इत्यस्य फलाननुगुणमिति विशेषणे तु परामर्शस्यानुमितिरूपफलानुगुणत्वेन 'फलाननुगुणमन्यम्' इत्यनेन तद्धारणाऽसम्भवान्न निरुक्तान्यथासिद्धिः अत एव एतदन्यथासिद्धेः
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy