________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १५५ आत्मत्वव्यापकविभुत्वेनान्यथासिद्धेः। न च स्वर्गादिपूर्ववर्तित्वेन गृहीत एव यागादावपूर्वपूर्ववर्तित्वग्रहाद् यागादिकमपूर्वादावन्यथासिद्धम् ? अन्यं प्रति पूर्ववर्तित्वानुपपादकं यस्य पूर्ववर्तित्वं गृह्यत. इत्यर्थात् , वस्तुतोऽन्यं प्रति पूर्ववर्तित्वग्रहनियतो यं प्रति यद्धर्माक्षिपति- न चैवमिति । कार्यसामान्य प्रति कारणत्वं काल-दिगात्मनाम् , तत्र कालस्य कालिकसम्बन्धेन सर्वकार्याधारत्वतः सर्वकार्य प्रति कारणत्वम्, दिशश्च दिक्कृतविशेषणतया कार्यसामान्याधारत्वतः कार्यसामान्यकारणत्वम् , कर्तृत्वेन कार्यत्वेन कार्यकारणभावस्य तु कुलालस्य घटं प्रति तन्तुवायस्य पटं प्रति कारणत्वमिति विशिष्य कार्यकारणभावे सति 'यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि' इति न्यायात् सिद्धावात्मत्वेन सर्वात्मगतेन समान्यरूपेण कार्यसामान्य प्रति आत्मनः कारणत्वम्, आकाशस्य कार्यसमान्यं प्रति कारणत्वे न काचिद् युक्तिरस्ति, अथाप्यात्मनो विभुत्वेन यदि कार्यसामान्य प्रति हेतुत्व भवेत् तदा विभुत्वस्य कारणतावच्छेदकस्याः काशेऽपि सत्त्वात् तस्यापि विभुत्वेन कार्यसामान्यं प्रति कारणत्वं सिद्धयेदपि, किन्तु व्याप्यधर्मेण कारणत्वे सम्भवति व्यापकधर्मेणान्यथासिद्धत्वम् , अत एव :दण्डादीनां घटादिकं प्रति दण्डत्वादिरूपव्याप्यधर्मेण कारणत्वे सम्भवति तद्व्यापकेन द्रव्यत्वेनान्यथासिद्धत्वम् , तथा चात्मन आत्मत्वेन कारणत्वे तद्वयापकेन विभुत्वे. नान्यथासिद्धत्वमिति विभुत्वेन कारणतावच्छेदकतयाऽक्लप्तेनाकाशस्याप्यन्यथासिद्धिरिति निषेधहेतुमुपदर्शयति-आत्मत्वति । यागादेरदृष्ट प्रति द्वितीयान्यथासिद्धिमाशङ्कय परिहरति-न चेति। निषेधे हेतुमाह-अन्यं प्रतीति- तथा च अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एक यं प्रति यस्यान्य प्रति पूर्ववर्तित्वानुपपादकं पूर्ववर्तित्वं गृह्यते तद् द्वितीयमिति फलितम्, न च तल्लक्षणं तत्र समन्वेति, स्वर्गादिकं प्रति पूर्ववर्तित्वे गृहीत एवाएं प्रति यागस्यान्यं प्रति पूर्ववर्तित्वा