SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] " तदानीम् ' इत्यादिप्रतीतिविषयत्वम् इत्थं च तत्तत्कालोपाधित्वाजन्यस्य सूर्यपरिस्पन्दादेरपि कालत्वमुपचर्यत इति तत्रापि कालिकसम्बन्धेन तत्समानकालीनः पदार्थो वर्तते, जन्यस्य च तत्तद्वस्तुनः स्वासमानकालीनजन्यालिङ्गितकालतः स्वकालस्य व्यावर्तकत्वादुपाधित्वसम्भवेऽपि सर्वकालावस्थायिनो नित्यस्य न कस्यचित् कालस्य व्यावर्तकत्वमिति न नित्यस्य कालोपधित्वम्, कालोपाधित्वाभावाच्च न तत्रोपचरितमपि कालत्वमिति कालानात्मके नित्ये न कस्यापि कालिकसम्बन्धेन वृत्तित्वम्, नित्यं पुनर्महाकाले कालोपाधौ जन्ये च कालिकसम्बन्धेन वर्तत एव नित्ये कालिका योग इति नियमोऽपि नित्ये कालिकसम्बन्धानुयोगित्वनिषेधमेव प्रतिपादयति, कालिकसम्बन्धप्रतियोगित्वं च नित्येऽपि समस्त्येवेति भवति, कालिकसम्बन्धेन स्वाधिकरणत्वस्य सम्बन्धमध्ये प्रवेशे नाशवन्न जातिरिति तन्नाशो न निरुक्तनाशवन्नाशत्व लक्षणकार्यतावच्छेदकधर्माक्रान्त इति, स्वाधिकरणत्वसम्बन्धस्थाने कालिकसम्बन्धेन स्ववृत्तित्वनिवेशेनापि घटकालीनघट गतक्रियायामसमानकालीनायां कालिकसम्बन्धेन घटनाशनिरूपितवृत्तित्वविरहात् तेन सम्बन्धेन नाशवत्त्वाभावात् तन्नाशस्य निरुक्तनाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्मानाक्रान्तत्वाद् व्यतिरेकव्यभिचारवारणं सम्भषत्येव, जातिश्च नित्यत्वाजन्ये घटनाशोऽपि कालोपाधौ कालिकसम्बन्धेन वर्तत इति नाशवती भवति, ततो जातिनाशो यदि भवेद् भवेदपि तन्नाशस्य निरुक्तकार्यतावच्छेदकधर्माक्रान्तत्वाद् घटनाशातदापत्तिः, एवं समवायस्य स्वरूपसम्बन्धः समवाय एवेति स्वप्रतियोगिसमवेतत्वसम्बन्धो घटनाशस्यास्ति नित्यत्वाच्च समवायस्येति कालिकसम्बन्धेन घटनाशवृत्तित्वमप्यस्तीति तन्नाशो यदि भवेद् भवेत् तस्यापि निरुक्त कार्यतावच्छेदकधर्माक्रान्तत्वाद् घटनाशादापत्तिः, किन्तु प्रतियोगितया नाशं प्रति तादात्म्यसम्बन्धेन प्रतियोगिनोऽपि कारणत्वमुररीक्रियते, जातेर्नित्यत्वान्यथानुपपत्त्या जातिनाशो न [ १३५
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy