SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ १३१ योगितया स्वप्रतियोगिसमवेतत्व-स्वाधिकरणत्वोभयसम्बन्धेन नाशवनाशत्वावच्छिन्न एव स्वप्रतियोगिसमवेतत्वेन नाशत्वावच्छिन्नस्य त्वाभयसम्बन्धेन इत्यास्यान्वयः, नाशत्वावच्छिन्ना नाशनिष्ठा या जनकता तदवच्छेदकसम्बन्धश्च स्वप्रतियोगिसमवेतत्वमिति 'स्वप्रतियोगिसमवेतत्वेन' इत्यस्य ' हेतुत्वाद् ' इत्यनेनान्वयः, घटमाशात् तद्गतरूपादिनाशे तद्गतरूपादिनाशो निरुक्तनाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्माक्रान्त इत्थमवसेयः- नाशो घटनाशः, तस्य स्वप्रतियोगिसमवेतत्वं घटगतरूपादौ वर्तते, स्त्रं घटनाशः, तत्प्रतियोगी घटः, तत्र समवायसम्बन्धेन रूपादिकं वर्तत इति तन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वस्वरूपं तत्समवेतत्वं समस्तीति घटनाशोत्पत्त्यनन्तरक्षणे घटगतरूपादिर्नश्यतीति घटनाशोत्पत्तिक्षणे समस्त्येवेति स्वसमानकालीने जन्ये कालिकसम्बन्धेन स्वाधिकरणत्वमनुगतमिति घटनाशस्य कालिकसम्बन्धेन स्वाधिकरणत्वमपि घटगतरूपादौ वर्तत इति भवति घटगतरूपादिः स्वप्रतियोगिसमवेतत्व-स्वाधिकरणत्वोभयसम्बन्धेन घटनाशवानिति तन्निष्ठप्रतियोगिताको नाशो घटगतरूपादिनाशो नाशवन्नाशत्वलक्षणकार्यतावच्छेदकधर्माऽऽक्रान्तः, स च प्रतियोगिता सम्बन्धेन घटगतरूपादावुत्पद्यते, तत्र नाशत्वलक्षण कारणतावच्छेदकधर्माक्रान्तो घटनाशोऽपि कारणतावच्छेदकीभूतेन स्वप्रतियोगिसमवेतत्वसम्बन्धेन वर्तते, स्वं घटनाशः, तत्प्रतियोगी घटः, तन्निरूपित समवायसम्बन्धावच्छिन्नवृत्तित्वलक्षणतत्समवेतत्वं घटगतरूपादौ समस्तीति निरुक्तकार्यकारणभावबलाद् घटनाशेन घटगतरूपादिनाशो युज्यते । निरुक्तकार्यकारणभावस्याभावाच्च न घटनाशेन घटगत जात्यादेनशः, तथाहियद्यपि घटनाशः स्वप्रतियोभिसमवेतत्वसम्बन्धेन घटगतजातौ वर्तते, स्वं घटनाशः, तत्प्रतियोगी घटः, तन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वलक्षणतत्समवेतत्वं घटगतजातौ समस्तीति, तथापि नित्यानां 9
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy