SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अनेकान्तव्यवस्थाप्रकरणम् ] [ ९९ न्याय्यत्वात् । किञ्च, एवं रूपादीनां विभिन्न देशोपलम्भोऽपि स्यात् यद् यतो भिन्नं तत् ततो भिन्नदेश उपलभ्यते' इति व्याप्तेः। उपष्टम्भकभागेन व्यभिचार इति चेत् ? न-परिणामाभदवादे तस्यापीतरभागाभिन्नत्वादिति भावः ॥ अथोपचारतो यदि पर्याया अप्यभ्युपगम्यन्ते तदा सिद्धसाध्यतेति दर्शयन्नाह "जइ पञ्जवोवयारो लय-प्पयासपरिणाममित्तस्स । कीरई तन्नाम ण सो दवादत्थंतरब्भूओ" ॥ [विशेषावश्यकभाष्यगाथा-२६७१] नाम् । न चेति-स्वप्रदेशत्वं न क्वचिद् "दृष्टं नवा गुणानां स्वप्रदेशत्वं कस्थाऽपीष्टमित्यर्थः। कथं नेष्टमित्यपेक्षायामाह-गुणादीनामिति । गुणादीनां द्रव्याद भिन्नत्वाऽभ्युपगमे दोषान्तरमप्याह- किश्चेति । एवं गुणादीनां द्रव्याद् भिन्नत्वे। यदिति- अत्र घटादिदृष्टान्तः, घटादिकं पटादितो भिन्नं ततो भिन्नदेशे उपलभ्यते, एवं गुणादिकमपि द्रव्याद् भिन्नं द्रव्यतो भिन्नदेशे उपलभ्येत । उक्तनियमे व्यभिचारमाशङ्कतेउपष्टम्भकभागेनेति-पार्थिवाऽऽदिशरीरादौ जलादीनामपष्टम्भकत्वमभिममिति जलादिलक्षणमुपष्टम्भकं पार्थिवादिशरीरादितो भिन्नमपि न ततो भिन्नदेशे उपलभ्यत इति व्यभिचारः। उपष्टम्भकभागस्तदपेण परिणमत इत्येतावतोपष्टम्भक उच्यते, तथा च परिणाम-परि णामिनोरभेदाऽभ्युपगमवादे न तस्य ततो भिन्नत्वमिति न व्यभिचार इति समाधते- नेति । तस्याऽपि उपष्टम्भकभागस्यापि ॥ . वस्तुतो द्रव्यात् पर्यायाणां भिन्नत्वाऽभावेऽप्युपचारतो भिन्नत्वमित्युपगमस्येष्टत्वप्रतिपादिकां भाष्यगाथामवतारयति- अथोपचारत इति । जइ० इति- “यदि पर्यवोपचारो लय-प्रकाशपरिणाममात्रस्य। क्रियते तन्नाम न स द्रव्यादर्थान्तरभूतः" ॥ इति संस्कृतम् ।
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy