________________
[ ९७
भनेकान्तव्यवस्थाप्रकरणम् ]
उक्तमेव प्रकृतगाथार्थ भाष्यकृद् विवृणोति-- "जं जाहे जं भावं, परिणमइ तयं तया तओऽणन्नं । परिणइमेत्तविसिट्ठ दवं चिय जाणइ जिणिंदो" ॥
विशेषावश्यकभाष्यगाथा-२६६८] व्या०-इह यद्-घटेन्द्रधनुरादि द्रव्यम् , यदा-यस्मिन् काले, यं-रक्त-श्वेतादिकम् , भावं परिणमति तत् तदा ततः-पर्यायादनन्यद् द्रव्यमेव, परिणतिमात्र विशिष्टं वस्तुतोऽविचलितस्वभावं जानाति, कुण्डलादिकमिव संस्थानविशेषविशिष्टं सुवर्णम् ॥
कुण्डलादिपर्यायासत्त्वे कथं तद्व्यपदेश इति जिज्ञासायामाह"न सुवन्नादन्नं कुण्डलाइ तं चेव तं तमागारं । पत्तं तव्ववएसं लहइ सरूवादभिन्नं पि" ॥
[विशेषावश्यकभाष्यगाथा-२६६९] व्या०—न सुवर्णादन्यत् कुण्डलादिकमभ्युपगच्छामः, किन्तु
"जं जं जे जे भावे.'' [पत्र-९२] इत्यादिनियुक्तिगाथाऽर्थोपदशिकां भाष्यगाथामवतारयति-उक्तमेवेति । जं जाहे० इति-"यद् यदा यं भावं परिणमति तत् तदा ततोऽनन्यत् । परिणतिमात्रविशिष्टं द्रव्यमेव जानाति जिनेन्द्रः" ॥ इति संस्कृतम् । विवृणोति-इहेति, विवरणं स्पष्टम् । उक्ताऽर्थदाया॑य दृष्टान्तमाह-कुण्डलाऽऽदिकमिवेति ॥
भाष्यस्यैवोक्तदृष्टान्तोपोद्वलिकां गाथामवतारति- कुण्डलाऽऽदिपर्यायाऽसत्त्व इति । तद्वयपदेशः कुण्डलादिव्यपदेशः । न सुवन्न० इति"न सुवर्णादन्यत् कुण्डलादि तदेव तं तमाकारम् । प्राप्तं तद्यपदेश लभते स्वरूपाद्भिन्नमपि" ॥ इति संस्कृतम् । विवृणोतिन सुवर्णादन्यविति । कुण्डलादीनां सुवर्णादभिन्नत्वेऽपि तत्तद्विलक्ष