________________
अमकान्तव्यवस्थाप्रकरणम् ]
[६९ - अस्यार्थः-उत्पद्यन्ते, व्ययन्ते, उत्पादव्ययावच्छिन्नस्वभावेन पं परिणमन्ते, द्वितीयचकारस्य॑वकारार्थस्य 'गुणाः' इत्यनन्तरं सम्बयाद् गुणा एव-पर्याया एव, न तु द्रव्याणि, अतस्त एव सन्ति, पत्रनील-रक्ततादिवत् , न तु द्रव्याणि, उत्पाद-व्यय-परिणामरहितत्वाद् वन्ध्यासुतादिवदित्यर्थः । किश्च, द्रव्यात् प्रभवो येषां ते द्रव्यप्रभवा गुणा नेत्यत्र विश्रामा, ततो 'द्रव्यप्रभवाः' इत्यनन्तरं चकारस्थाप्यर्थस्य व्यवहितसम्बन्धानकारस्य चाऽऽवृत्तिकरणात् नापि गुणप्रभवाणि द्रव्याणि भवन्तीत्यर्थसिद्धेन कारणत्वं नापि " उत्पद्यन्ते व्ययन्ते च परिणमन्ते च गुणा न द्रव्याणि । द्रव्यप्रभवाश्च गुणा न गुणप्रभवाणि द्रव्याणि" ॥ इति संस्कृतम् । उक्तगाथां विवृणोति- अस्यार्थ इति । द्वितीयचकारस्य 'परिणमन्ते च' इति चकारस्य । अतः गुणानामेवोत्पाद-व्ययाऽवच्छिन्नस्वभावेन परिणमनभावतः । त एव गुणा एव । द्रव्याणि न सन्तीत्यत्र हेतुः उत्पाद-व्ययपरिणामरहितत्वादिति । वन्ध्येति- यद् यद् उत्पादव्ययपरिणामरहितं तन्न सत्, यथा-वन्ध्यासुतादीत्यर्थः । पूर्वाद्ध व्याख्याय उत्तराद्ध विवृणोति- किञ्चेति- 'द्रव्यप्रभवाश्च गुणा न इति सम्बन्धे अग्रे 'गुणप्रभवाणि द्रव्याणि' इत्येतावन्मात्रभावाद् गुणकार्यत्वतो द्रव्यस्य सत्त्वमायातं स्याद् , अतः 'द्रव्यप्रभवाश्च' इति चकारोऽप्यर्थकः, स आवृत्तितो लब्धस्य द्वितीयनकारस्यानन्तरं सम्बन्धनीय इति 'नापि गुणप्रभवाणि द्रव्याणि' इति वाक्यं द्वितीयं पर्यवस्यति, तेन न गुणप्रभवत्वमपि द्रव्याणामित्यर्थी लभ्यते इत्याहततो दंव्य प्रभवा इत्यनन्नरमिति । तथा च कार्यत्वस्य कारणत्वस्य चामावान द्रव्याणां सत्त्वमित्याह-न कारणत्वमिति । तानि द्रव्याणि । नकारस्यावृत्तिकरणमन्तरेणैव उत्तरार्धमन्यथा व्याचष्टे- भवति । कथं गुणप्रभवत्वं द्रव्याणाम् ?, तथाऽभ्युपगमे वा द्रव्यस्य सत्त्व