________________
ममेकातम्यक्साप्रकरणम् ]
[४७ सामान्यसिद्धेः, तत्-तदन्यक्षणवृत्तित्वयोश्चित्रज्ञाने नीलाकार-पीता. कारयोरिवाविरोधात् । ___ ज्ञान विषययोरतिरिक्तसम्बन्धानुपपत्तेर्ज्ञानाकार एव भावो न तु बाह्य इति तदेकदेशीयः, तदप्यसत्-बाह्यार्थाऽभावे नियतव्यवहारादिविलोपप्रसङ्गाद्, वासनाविशेषेण तद्व्यवस्थोपपादनेऽपि तत्प्रबोधार्थ बाह्याभ्युपगमावश्यकत्वादिति दिग् ।
तदेवं व्यवस्थितम्- जीवाऽजीवादीनां विचित्रभावा-ऽभावादिशबलैकरूपत्वम् । त्वयोरेकत्र द्रव्ये सम्भवेन तयोरप्यविरोधादित्याह- तत्-तदन्यक्षणवृत्तित्वयोरिति ।
ज्ञानाकारातिरिक्तस्य बाह्यवस्तुनोऽभावादेव न तस्य भावाभावात्मकत्वसम्भव इति विज्ञानवादिमतं प्रक्षेप्तुमुपन्यस्यति- ज्ञानविषययोरिति। अतिरिक्तसम्बन्धानुपपत्तेः तादात्म्यातिरिक्तसम्बन्धाऽसम्भवात् । तदेकदेशीयः बौद्धकदेशीयः, योगाचार इति यावत् । तदप्यसत् तन्मतमपि न समीचीनम् । तत्र हेतुमुपदर्शयति- बाह्याभाव इतिघट-पटादिबाह्यार्थाभावे ज्ञानस्याऽविशिष्टस्वरूपस्याऽविशेषाद् ‘घटेन जलाहरणम् , पटेनावरणम् , जलेन पिपासानिवृत्तिः, वह्निना दाहः' इत्यादिनियतव्यवहारादिविलोपप्रसङ्गादित्यर्थः। बाह्यार्थाभावेऽपि वासनाविशेषादेव नियतव्यवहारादिरिति तदुपगमोऽपि न समीचीनः, अप्रबुद्धस्य वासनाविशेषस्य नियामकत्वाऽसम्भवेन प्रबुद्धवासनाविशेषस्य नियतव्यवहारादिनियामकत्वस्य वाच्यत्वेन तत्प्रबोधार्थ बाह्यार्थाभ्युपगमस्यावश्यकत्वादित्याह- वासनाविशेषेणेति । तद्न्ववस्थोपपादनेऽपि प्रतिनियतव्यवहारोपपानेऽपि। तत्प्रबोधार्थ वासनाविशेषप्रबोधार्थम् । उपसंहरति- तदेवमिति ।