________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[४१ दर्शनात् , तद्वत् सदंशाऽसदंशयोरपि नैकस्य तुच्छत्वमपरस्यातुच्छत्वम् , तदिदमभिप्रेत्योक्तं प्रतीत्यसत्याधिकारे भाषारहस्येऽस्मामि:"ते हुंति परावेक्खा बंजयमुहदंसिणो ति ण य तुच्छा। दिमिणं वेचित्तं सराव-कप्पूरगंधाणं" ॥ ३० ॥ * शुद्धं भूतलमेव घटाऽभावव्यवहारविषय इति नाभावांशोऽधिक इति मीमांसकः, तन- शुद्धत्वस्याऽभाववत्त्वातिरिक्तस्याऽ. निर्वचनेन कथञ्चिदभावपरिणामाधिक्यस्याऽऽवश्यकत्वात्। यादृशे भूतले परस्य घटाऽभाववत्त्वं तादृशत्वमेव मम शुद्धत्वमिति चेत् ? भवति क्वचिन्नेति दृष्टान्तावष्टम्मेन द्रढयति-कपूरेति। उक्ताथै ग्रन्थान्तरं संवादकतया दर्शयति- तदिदमभिप्रत्योक्तमिति। "ते हुति०" इति- “ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न तुच्छाः। दृष्टमिद वैचित्र्य शराव-कर्पूरगन्धयोः” ॥ इति संस्कृतम् , स्पष्टार्थयं गाथेति ।
अभावांशाऽपलापिनो मीमांसकविशेषप्रभाकरस्य मतं प्रतिक्षेप्तुमुपन्यस्यति- शुद्धमिति। प्रतिक्षेपे हेतुमुदर्शयति- शुद्धत्वस्येति । अभाववत्त्वं न शुद्धत्वं किन्त्वन्यदेव, तद्विशिष्टस्य भूतलस्याऽभावव्यवहारविषयत्वेऽपि नातिरिक्ताभावस्वीकार इति प्रभाकरमतानुयायी शङ्कते-यादृश इति। परस्य अतिरिक्ताभावस्वीकर्तु यायिकादेः। मम प्रभाकरमतानुयायिनः। न किञ्चिद्वैलक्षण्यविशिष्टे भूतले घटाभाववत्त्वं नैयायिकादिभिरुपेयते येन तादृशवैलक्षण्यमेव शुद्धत्वं प्रभाकराऽनुयायिभिरपि स्वीकृतं भवेत् , किन्तु भूतलत्वावच्छिन्न एव घटाभाववत्त्वमुपेयते, भूतले घटसत्त्वदशायां भूतलत्वावच्छिनस्य तस्य भावेऽपि कालविशेषविशिष्टस्य भूतलस्वरूपस्य घटा: