SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १८] [ तत्त्वबोधिनीविवृतिविभूषितम् निरूपणमावश्यकम्, तदाभ्युदय निःश्रेयसहेतुप्रवृश्य नुकूलज्ञान विषयतया जीवाजीवादयो नवैव पदार्था निरूपणीया इति परमभुमि - सिद्धान्त सरणिः || अथ किमेतेषु भावाभावादिशबलैकरूपत्वम् १, उच्यते - विषय - तया भावाऽभावाद्याकार बुद्धिजनकपरिणामद्वयतादात्म्याऽऽपन्नजात्यन्तरैकधर्मित्वम् अस्ति होकस्य जीवाजीमादेः स्व-परद्रव्यादिनिबन्धनो भावाभावादिरूपो द्विविधः परिणामः, यद्वलात् तत्र , 'पुण्यस्य' इत्यस्य 'पृथग्निरूपणम्' इत्यनेनान्वयः तत्प्रतिपक्षतया नरकादिहेतुत्वेन पुण्यविरोधितया । तदा पुण्य-पापयोः पृथग्निरूपणस्याSऽवश्यकत्वे च । परममुनि सिद्धान्तसरणिः जिनसिद्धान्तमार्गः ॥ 'तत्त्वेषु भावाभावादिशबलैकरूपमत्वमनेकान्तः' इत्युक्तम्, तत्र किं भावाभावादिशबलैकरूपत्वमिति पृच्छति - अथेति । एतेषु जीघाजीवादिषु । उत्तरयति - उच्यत इति । विषयतया विषयतासम्बन्धेम, भावाऽभावाद्याकारबुद्धिर्विषये वर्तते इति तज्जजनकं यत् परिणामद्वयं तदपि तद्विषयस्यैव, तादृशपरिणामद्वयतादात्म्यापन्नं यज्जात्यन्तररूपकधर्मि जीवाऽजीवादिविषयस्वरूपं तत्त्वं जीवाऽजीवादिवस्तुनि वर्तत इति तदेव भावाभावादिशबलैकरूपत्वम्, एतदेव भावयतिअस्तीति- अस्य ' परिणाम:' इत्यनेन सम्बन्धः । हि यतः । ' द्रव्यादि० इत्यादिपदात् क्षेत्र-काल- भावानां ग्रहणम्, स्वद्रव्यादिनिबन्धनोऽस्तित्वादिभावरूपः परिणामः परद्रव्यादिनिबन्धनो नास्तित्वाद्यभावरूपः परिणाम इत्येवं द्विविधः परिणामो जीवाऽजीवादेरेकस्य वस्तुनोऽस्तीत्यर्थः । यद्वात् उपदर्शितभावाऽभावादिरूपपरिणामद्वयबलात् । तत्र जीवाजीवादावेकस्मिन् वस्तुमि, भावात्मपरि'अस्ति' इति प्रत्ययः, अभावात्मकपरिणामबलाद् शामबलाद् "
SR No.022426
Book TitleAnekant Vyavastha Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherVijay Lavanyasurishwar Gyanmandir
Publication Year1952
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy