SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः । ३७ शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थ वाच्य त्वेनाभ्युपगच्छन्नेवंभूतः ॥ ४० ॥ यथेन्दनमनुभवन्निन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते ॥ ४१ ॥ क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तुतदाभासः || ४२ ॥ यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ४४ शेषास्तुत्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः॥४५ पूर्वः पूर्वोनयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ ४६ ॥ सन्मात्रागोचरात्संग्रहान्नैगमो भावाभावमूमिकत्वाद् भूमविषयः ॥ ४७ ॥ सद्विशेषप्रकाशकाद्वयवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वात् बहुविषयः ॥ ४८ ॥
SR No.022423
Book TitlePramannay tattvalolankar
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherMafatlal Zaverchand Gandhi
Publication Year1933
Total Pages298
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy