________________
-पृ०२७०]
उपासकाध्ययनटोका
४२५
तस्याः परिग्रहः युक्तिपरिग्रहः यथार्थत्वेन सम्यक्तया प्रमाणनयानाम् आश्रयं कृत्वा निजस्वरूपम् आत्मा चिन्तयति तदा स ध्यातोच्यते। रत्नत्रयं ध्येयं भवति । प्रात्मैव आत्मानं चिन्तयति निजेनैव स्वरूपेण निजं रूपं चिन्तयति । अतो ध्यानमप्यात्मैव । रत्नत्रयं तस्य चिन्तनात्प्राप्यतेऽतस्तदेव आत्मनोऽनन्यं फलम् । अत्र रत्नत्रयम् आत्मनः सकाशात् अभिन्नम् । अतः रत्नत्रयवान् आत्मा रत्नत्रयमेवोक्तः ॥६६५॥ सुखामृतेतिमात्मनः निजस्वरूपे एव रतिः सुखामृतम् उच्यते । तस्योत्पत्तेः आत्मा कारणम् । अतः सुधोत्पत्तिर्यथा सूधासूतेश्चन्द्राज्जायते तथा सुखामतोत्पत्तेः कारणं आत्मैव न स्त्रीस्रकचन्दनादिवस्तूनि । अयमात्मैव निजानन्दरवेः उदयाचल: । परम् अहं ब्रह्मापि अत्र अस्मिन संसारे तमःपाशवशीकृतः तमोजानं तत् पाश इव पाशः । यथा पाशेन कण्ठो निरुध्यते तथाऽज्ञानपाशेनायमात्मा निरुद्धत्वादचेतन इव स्वस्वरूपज्ञानमूढो भवति ॥६६६।। यदेति-यदा काललब्धिमासाद्य पञ्चेन्द्रियसंज्ञिपर्याप्तकत्वपर्यायं प्राप्य सर्वविशद्धया सम्यक्त्वं चारित्रं च लभते ममात्मा तदा तद्धयानोदयगोचरं मे चेतश्चकास्ति। तस्य निजस्वरूपस्य ध्यानं चिन्तनं तस्य उदयः उत्पत्तिः सः गोचरो विषयो यस्य तथाभूतं चेतः चकास्ति प्रकाशते । तदा आदित्यः सूर्यः अन्धकारं निरस्य
निजतेजसा प्रकाशयति । तथा अहमपि अतमाः तमः मिथ्याज्ञानं तेन रहितो भूत्वा आदित्यवत् प्रकाशमयो ज्ञानमयो भूत्वा जगतां त्रिलोकानां चक्षुः स्याम् यथार्थवस्तुस्वरूपदर्शको भवेयम् ॥६६७॥ इन्द्रियजसुखस्वरूपं दर्शयति निदर्शनेन-आदाविति-सर्वम् इन्द्रियसुखं पञ्चेन्द्रियविषयसुखम् । आदौ प्रारम्भे । मधुवन्मकरन्दवत् प्रतिभाति । परं प्रान्ते अवसाने तदेव अमधु कटुकम् अप्रियं जायते । यथा हेमन्ते शीतों प्रातःस्नायिषु प्रभातकाले स्नानं कुर्वत्सु अङ्गिषु नरेषु तोयम् उष्णमिवाभाति । परं सूर्योदयानन्तरं तदेव नीरं तथा नानुभूयते ॥६६८॥ सर्वेऽपि यमेन कवलीक्रियन्ते जीवाः । यो दुरामयेति-य: दुरामयदुर्दशैं यः यमः दुष्टेन रोगेण पीडयमानत्वात् दुर्दर्श: दुष्टः कुरूपः दर्शः दर्शनं यस्य, रोगेण कुरूपाकारः जुगुप्स्याकारः यो नरः तस्मिन् । यः बद्धग्रासः तं नरं यः ग्रासीकरोति । तस्य यमस्य । स्वभावसुभगे प्रकृतिसुन्दरे नरे । स्पृहा अभिलाषा । केन निवार्यते । न केनापि ॥६६॥
[पृष्ठ २६९-२७० ] जन्मेति-जन्म जननम् यौवनं तारुण्यम्, संयोगसुखानि इष्टजनसहवाससुखानि । यदि देहिनां प्राणिनाम् । निर्विपक्षाणि निर्गतो विपक्षः शत्रुर्यम्यस्तानि यदि भवेयुः । तदा को नाम सुधीर्मतिमान्नरः संसारमुत्सृजेत् भवं त्यजेत् । गृहीत्वा दीक्षां को नाम जनः तपःक्लेशं सहेत । जन्मनः शत्रुर्मरणम् । यौवनस्य शत्रुर्जरा। संयोगसुखस्य शत्रुः इष्टवियोगदुःखम् ॥६७०॥ अनुयाचेतेति - आयूंषि न अनुयाचेत आयुर्वदये न स्पृहयेत् । नापि मृत्युम् उपाहरेत् मृत्युर्मे भूयादिति नाभिलषेत् । कालावधि कालस्य मर्यादाम् अविस्मरन् चिन्तयन् भूतः भृत्य इव द्रव्य क्रीतो दास इव आसीत् । यथा भृत्यः स्वामिनं यावत्कालं तेन न मुच्यते तावत्कालं तं सेवते तथा आयुःसमाप्तिर्यावन्न भवेत्तावत्कालं स्वस्थेन चेतसा आसीत ॥६७१॥ महा. भाग इति - अहम् अद्य महाभागः महाभाग्यवान् । अस्मि भवामि । यत् यस्मात्कारणात् तत्त्वरुचितेजसा जीवादिसप्ततत्त्वानां रुचिः जिनदेवेन यत्सप्ततत्त्वानां स्वरूपं प्रत्यपादि तत्र न दोषकणिकापीति विमर्शात्संजातहर्षेण नखच्छोटिकादानं तदेव तेजः तेन । अहं सूविशद्धान्तरात्मा अतीव निर्मलान्तरात्मा जातः। मम प्राक्तनं बहिरात्मस्वरूपं यदन्धकारसदशमासीत्तन्नष्टम् । अधुनाहं तमःपारे प्रतिष्ठित आसे । सम्प्रत्यहं मिथ्याश्रद्धानतमा उल्लध्य स्वस्वरूपे श्रद्धानरूपे स्थिरो जातः स्वरं वर्ते ॥६७२।। जैनागमसुधाया दुर्लभत्वमाह - तन्नास्तीति - लोके जगति । अहं यत् सुखं दुःखं च नाप्तवान् न लब्धवान् तन्नास्ति । चतुर्गतिभवानि सर्वाणि सुखानि दुःखानि च मया अनन्तवारं भुक्तानि । परं मया स्वप्नेऽपि जैनागमसुधारसः न प्राप्तः । जागरितावस्थायां जिनप्रोक्तस्य आगमपीयूषस्य आस्वाद: दूर एव आसीत् ॥६७३।। जैनागमसुधाबिन्दुमप्यालिहतो जनस्य संसारज्वलनशान्तिर्भवतीति वदति - सम्यगिति- एतत्सुधाम्भोधेः एष चासो सुधाम्भोधिः एतत्सुधाम्भोधिः तस्य एतस्य जिनागमपीयूषसागरस्य । बिन्दुमपि मुहुः पुनः पुन: आलिहन् आस्वादयन् जन्तुः । जातु कदाचिदपि । जन्म एव ज्वलनोऽग्निः तस्य भाजनं पात्रं न जायेत । तस्य जीवस्य संसाराङ्गार. स्पर्शः कदाचनापि न भवेत् ॥६७४।। अधुना अहंतः स्वरूपं पञ्चदशभिः श्लोकावर्णयति सूरिः। तत्स्वरूप.