________________
प० जिनदासविरचिता
[ पृ०२१६संक्लिष्टस्य बहिःशुद्धरत्यावश्यकता-सर्वेति-सर्वे च ते आरम्भाः सेवाकृषिवाणिज्यादयः तेषां विज़म्भणं विजृम्भः प्रवृद्धिर्यस्य, पुनः कथंभूतस्य । ब्रह्मजिह्मस्य जहाति त्यजति इति जिह्मः ब्रह्मचर्येण त्यक्तस्य स्वस्त्रिया कृतमैथुनस्येति भावः । एतादृशो देहिनः द्विजश्रावकस्य बहिःशुद्धिम् अविधाय अकृत्वा आप्तोपास्त्यधिकारिता न । देवापूजाधिकारो नास्ति ।।४६८॥ अद्भिरिति-अद्भिः जलैः शुद्धि निराकुर्वन् स्नानम् अकुर्वन् इत्यर्थः, मन्त्रमात्रपरायणः मन्त्रोच्चारणेष्वेव तत्सरः स ब्रह्मचारी भुक्त्वा भोजनं कुर्वाणः तद्दोषपरिहाराय मन्त्रम् उच्चार्य शुद्धिभाग्भवति, हत्वा मलमूत्रं कृत्वा मन्त्रः शुद्धयति । विहृत्य च विहारं कृत्वा स्वाध्यायाद्यर्थ गुर्वादिसमीपं गतवतस्तस्य मार्गे पादपतनादिषु जीवघाते सति पञ्चगुरुंमन्त्रर्यापथशुद्धिं कुर्वतः शुद्धिर्भवति न तस्य जलशुद्धे. रावश्यकता ॥४६९।। बहिःशुद्धिकराणि वस्तूनि-मृत्स्नयेति-प्रशस्ता शुचिस्थाने स्थिता शुभगन्धरसवर्णोपेता मृत्तिका मृत्स्नोच्यते तया । इष्टकया दग्धमत्खण्डेन । भस्मना, गोमयेन गोविडा । तावच्छौचं शुद्धिं कुर्यात् यावन्निर्मलता हस्तादेः स्यात् । इयं विशुद्धिब्रह्मचारिणा मुनिनापि विधेया । या स्नानशुद्धिः सा कदा विधेयेति उक्तमेव ॥४७०॥ विहृत्य आगतस्य, वस्तूनां च शुद्धिः-बहिरिति-बाह्यप्रदेशे विहृत्य गत्वा पुनः संप्राप्त आगतः अनोचम्य आचमनम् अकृत्वा गृहं न प्रविशेत् । आचम्य जलप्राशनं त्रिवारं कृत्वा गृहप्रवेशः कार्यः । तथा स्थानान्तरात् अन्यत् स्थानं स्थानान्तरम् अन्यग्रामगृहादेः आगतं सर्व वस्तु धान्यफलादिकं प्रोक्षितं जलेन प्रसिच्य आचरेत् सेवेत ॥४७१॥ कथंभूतः सन्देवार्चनविधिं कुर्यात्-आप्लुत इति-आ समन्तात् प्लुतः जलमवगाह्य स्नातः । संप्लुतः सम्यक् प्लुत: संस्नातः । स्वान्तशुचिवासो विभूषितः मनसा शुचिवाससा च शुद्धवस्त्रयुगलेन च विभूषितः शोभितः । मौनेन संयमेन इन्द्रियप्राणिसंयमयुगलेन च संपन्नः परिपूर्ण: गृही देवार्चनाविधिं कुर्यात् ॥४७२॥ दन्तधावनेति-दन्तानां धावनं दन्तधावनं दन्तप्रक्षालनं तेन शुद्धम् आस्यं मुखं यस्य सः । मुखवासोचिताननः वदनवाससा छन्नमुखः । असंजातान्यसंसर्गः न संजातः अन्यजनानाम् अस्नातजनानां संसर्गः स्पर्शः यस्य सः । गृही देवान् उपाचरेत् पूजयेत् ॥४७३॥ होमेति-भोजनात्प्राक् होमः भूतबलिश्च एतौ द्वौ विधी पूर्वेः प्राचीनसूरिभिः भक्तविशुद्धये अन्नविशुद्धये उक्तो। भुक्तः भोजनस्य आदी प्रारम्भे सलिलम् आचमनम्, सपिः घृतम्, ऊधस्यम् ऊधसि भवम् ऊधस्यं गोस्तनोद्भवं दुग्धमिति । एतेषां सेवनं रसायनम् । ज्वरादिव्याधिविनाशकम् । होमेन देवानां तर्पणं भवति । अन्नदानेन भूतानां प्राणिनां तर्पणं स्यात् ॥४७४॥ एतद्विधिरिति-एष विधिः होमभूतवल्यादिविधिः न धर्माय न पुण्याय । न च तदक्रिया तस्य अक्रिया अकरणम् अधर्माय अपुण्याय कथम् । दर्भपुष्पादिवत् दर्भपुष्पाक्षतश्रोत्रवन्दनादिविधानं यथा कृतं न धर्माय । अकृतं वा अधर्माय न भवति । दर्भाः लोकव्यवहारे पूजायां च पूताः मन्यन्ते । आसनादौ, अग्निज्वालनेन भूमिशुद्धौ च तदुपयोगकरणकथनात् । पुष्पाक्षतानामपि पाक्षिकादिभक्तानां भक्तिपरिणामाङ्गत्वात् धर्महेतुत्वमपि विज्ञेयम् । ब्रह्मचारिक्षुल्लकादीनां तदभावेऽपि भावपूजनं भवेदतो नाधर्मायापि ॥४७॥ द्वौ इति-हि यस्मात् गहस्थानां द्वौ धर्मों लौकिक: लोके भवः लौकिक: इहलोकसंबन्धी धर्मः। परस्मिन लोके भवः पारलौकिकः । आद्यः लौकिको धर्मः लोकाश्रयः अस्ति । होमो भूतबलिः, दर्भपुष्पाक्षतादिकं च लौकिको धर्मः । पर: पारलौकिकः आगमाश्रयः आगमाघारः जिनागमप्रोक्तः ॥४७६।।
[पृष्ठ-२१६] जातयः इति-सर्वा जातयः अनादयः ब्राह्मणक्षत्रियादयः । विदेहक्षेत्रापेक्षया एता जातयः अनादयः । तत्र मुक्तियोग्यानां जातीनाम् अच्छेद एव । भरतैरावतक्षेत्रापेक्षया चतुर्थकाले मुक्तियोग्यानां जातीनां संभवत्वात् सादित्वं तासाम् । अतः तत्क्रियाश्चापि तथाविधा अनादयः । श्रुतिः वेदः शास्त्रान्तरं वा अन्यद्वा शास्त्रं स्मृत्यादिकं प्रमाणं भवतु अत्र मः अस्माकं का क्षतिर्हानिः ॥ लोकाश्रयो धर्मः यः श्रुती स्मृती वोक्तः सः स आत्मप्रतिपन्नव्रतानुष्ठानानुपघातेन प्रमाण्यताम् ॥ ४७७॥ जैनागमविधिम् आत्महिताय प्रमाणयेत्- स्वजात्यैवेति-विशुद्धकुलजाती स्वजात्यैव स्वस्य जात्यैव जन्मना एव विशुद्धानां पवित्राणां वर्णानां ब्राह्मण-क्षत्रिय-विशां तक्रियाविनियोगाय गर्भान्वय-दोक्षान्वय-करीन्वयक्रियाणां विनियोगाय आरोपणाय जैनागमविधिः जिनागमप्रोक्तः आचारः परं प्रमाण मन्तव्यः । यथा स्वजात्यव स्वजन्मनैव निर्मलस्य कान्तिजुषो रत्नस्य मणेः तक्रियाविनियोगः शाणघर्षणादिकं रत्नशास्त्रप्रोक्तं परं प्रमाणं मन्यते जनः तद्वत् ॥ ४७८॥