SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ पं० जिनदासविरचिता [ पृ० २०१ ये ये मत्तालयः मत्तभृङ्गाः तेषां मण्डली समूहः तेन विलिख्यमाना रच्यमाना मरकतमणिमेखला मरकतानां मणीनां हरिन्मणीनां मेखला रशना यस्य । पुनः कथं भूतस्य । वृझोत्पलेति - बृझोत्पलाः कर्णिकाराः तेषां षण्ड: समूहः तेन मण्डितं भूषितं शिखण्डम् अग्रं यस्य रत्नशिखण्डनाम्नः शिखरस्य अभ्यासे समीपे निःशेषाः सकला शकुन्ताः पक्षिणः तेषां संभवम् उत्पत्तिम् आवहति धारयतोति तथाभूना गुहा समस्ति । यस्यां जटायुवैनतेय-वैशम्पायनप्रभृतयः शकुन्तयः पक्षिणः प्रादुरासन् अजायन्त । तस्यामेव तस्य किञ्जलल पक्षिणः उत्पत्तिजन्म । तां च गुहाम् अहं पुष्यश्च अनेकशः असकृत् नन्दाभगवतोयात्रानुसारित्वात् गौरीभगवत्याः यात्रामनुसृत्येत्यर्थः, साधु जानीवः । प्रकृतिश्चास्य अनेकवर्णा मनुष्यसवर्णा नरसमाना च । भूपाल:-( संजातकुतूहल: ) अमात्य, कथं तद्दर्शनोत्कण्ठा ममाकुण्ठा स्यात् । तस्य किंजल पक्षिणो दर्शनस्य उत्कण्ठा मम अकुण्ठा सा, उत्कण्ठा कथं मम सफला स्यादिति भावः । अमात्यः देव, मयि पुष्ये च गते सति । राजाअमात्य, भवान् अतीव प्रवाः वृद्धः । तत्पुष्यः प्रयातु । अमात्य - देव, तर्हि दीयताम् अस्मै सरत्नालंकारप्रवेकम्, पारितोषिकम् । रत्नालंकाराश्च ते प्रवेकाश्च उत्तमाः रत्नालंकारप्रवेकाः तैः सहितं सरत्नालंकारप्रवेकम् पारितोषकं परितोषजनकं द्रव्यम् अस्मै पुष्याय दीयताम् । अगणेयं पाथेयं च विपुलं पाथेयं पथि व्ययितव्यद्रव्यं शम्बलमिति भावः । राजा - ब्राढम् । अत्र मम संमतिरस्ति इति भावः । स्वामिचिन्ताचार चक्षुष्यः पुष्यः स्वामिनो घर्षण नृपस्य चिन्ता यथा अभिप्रायोऽस्ति तथा आचारेण प्रवर्तनेन चक्षुष्यः नेत्रानन्दजनकः पुष्यः तथा राज्ञादिष्टः गेहम् आगत्य 'आदेशं न विकल्पयेत्' नृपतिना आदेश: ईदृश एवं कथं कृतः अन्यादृशः कथं न कृतः इति विकल्पः न कर्तव्यः इति मतानुसारी प्रयाणसामग्रीं कुर्वाणः तया सतीव्रत पवित्रितसद्मया पद्यया सतीव्रतेन पवित्रितं सद्य गृहं यया तथाभूतया पद्मया पृष्टः - भट्ट, किमकाण्डे किम् अनवसरे प्रयाणाडम्बर: देशान्तरगमनारम्भः । पुष्यः - प्रस्तुतमाचष्टे प्रतिपन्नं कथयति । भट्टिनी - भट्ट, सर्वमेतत्सचिवस्य कूटकपटचेष्टितम् । कूटम् अनृतमयं कपटचेष्टितम् अनृतमयमायाव्यवहारः । भट्टः - भट्टिनि, किन खलु एतच्चेष्टितस्यायतनम् । एतत्कूटकपटव्यवहारस्य किमास्पदम् । भट्टिनी - प्रकान्तम् अभाषिष्ट । पूर्ववृत्तं सकलम् अभाषत । भट्टः — किमत्र कार्यम् । [ पृष्ठ २०१ भट्टिनी - कार्यमेतदेव | दिवा सप्रकाशं सर्वजनसमक्षम् एतत्पुरात्प्रस्थाय निशि निभूतं च प्रत्यावृत्य गूढं पुनरागम्य अत्रैव महावकाशे निजवास निवेशे विपुलदेशे निजगृहापवरके सुखेन वस्तव्यम् । उत्तरत्राहं जानामि । तदनन्तरं कार्यम् अहं पारयिष्ये । भट्टः - तथास्तु । ततोऽन्यदा तया परनिकृतिपात्र्या धात्र्या अन्यप्रतारणपात्रभूतया घाश्या उपमात्रा से दुराचाराभिषङ्गः असदाचारासक्तः कडारपिङ्गः सुप्तजनवेलायाम् आनीतः । " समभ्यस्तु तावत् इहैव इयं धात्री, अयं च कडारपिङ्गः महीमूलं पातालतलं नरकं यियासुः जिगमिषुः पातालवासदुःखं समभ्यसतु आवर्तयतु ।" इत्यनुध्याय इति चिन्तयित्वा तया पद्मा महावर्तस्य विपुल विस्तारस्य गर्तस्य कूपवत् गम्भीरभूमिरन्ध्रस्य उपरि कल्पितायां स्थापितायाम् अवानीयायां रज्ज्वादिनिवेशरहितायां खट्वायां मञ्चके क्रमेण उपवेशितवपुषी स्थापितदेहो तो द्वावपि दुरातङ्कबन्धे महाव्यथायुक्ते श्वभ्रमध्ये गर्ते विनिपेततुः अपतताम् । अनुबभूवतुश्च अन्वभवतां च निखिलपरिवारजनभुक्तावशिष्ट भक्तादिभोजनी कुम्भीपाकवत् उपक्रमः यस्य तथाभूतं षट्समाशाखान् समायाः षट्शाखाः षट्विभागाः तावत्कालं दुःखक्रमम् । समायाः वर्षस्य शाखाविभागाः मासाः षट् च ताः समाशाखाः षट्समाशाखाः षण्मासानिति यावत् । षण्मासावधि दुःखक्रमम् अनुबुभुजतुः । पुनरेकदा "स्वाम्यादेशविशेषविदुष्यः पुष्यः नृपाज्ञाविशेषे चतुरः पुष्यभट्टः तथाविधपक्षिप्रसवसमर्थ पक्षिणीसहितं किजल्पजातीयविहगजननसमर्थया विहग्या संयुक्तं कृतो विहितः पञ्जरे परिकल्पो बन्धः यस्य तं किंजल्पम् आदाय गृहीत्वा आगच्छन्, त्रिचतुरेषु वासरेषु दिवसेषु अस्यां पुरि प्रविशति ।" इति प्रसिद्धिप्रवर्तनी इति वाती घोषयन्ती । विविधवर्णविडम्बितकायेन नीलपीतादिवर्णैविविधैविडम्बितो चित्रितो कायो यस्य तद्वयेन पुनः कथंभूतेन तद्वयेन । चटकेति - चटक: कलविकः, चकोर: जीवंजीत्रः यो ज्योत्स्नया मोदते । चाषः किकीदिविर्नाम पक्षी, चातकः सारङ्गाख्यः पक्षी एते आदी येषां ते चटकादयः तेषां छदाः पक्षाः तैः छादिता आवृताः प्रतीकस्य शरीरस्य निकाया अवयवाः यस्य तथाभूतेन तद्वयेन पञ्जर एवं आलयः गृहं यस्य तद्वयेन सहरुचिरप्रवासोचितवेषजोध्यं पुष्यं ४४८
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy