________________
-पृ० १८४ ]
उपासकाध्ययनटीका
४३७
देशोपदेशः आत्मनः स्वस्य देशं गत्वा कृतोपदेश: सकल सिद्धान्तकोविदः नारदः सद्गुणभूरेः सद्गुणप्राप्तेः भूरि : ब्रह्मदेवतुल्यः तस्य क्षीरकदम्बसूरेः प्रव्रज्याचरणं स्वर्गारोहणं चावगत्य 'गुरुवद्गुरुपुत्रं च पश्येत्' इति कृतसूक्तस्मरणपर्याप्ततदाराधनोपकरणः इति सूक्तेः स्मरणात् गृहीतगुर्वाराधनसाहित्यः तद्विरहदुःखदुर्मनसं निजपतिवियोगदुःखव्याकुलचित्ताम् उपाध्यायभार्याम् जननीं निजमातृतुल्यां सहपांसुक्रीडितं सहधूलिक्रीडितं निजमित्रं पर्वतं च द्रष्टुम् आगतः । अपरेद्युः अन्यस्मिन्दिने तं पर्वतम् 'अजैर्यष्टम्यम्' इति वाक्यम् अर्ज: अजात्मजः छागैः gora, हव्यकव्यार्थी विधिविधातव्यः । देवेभ्यो दीयमानम् अन्नं हव्यम् । पितृभ्यो दीयमानमन्नं कव्यम् अग्निमुखेन देवेभ्योऽन्नं दीयते विप्रमुखेन पितृभ्योऽन्नमिति । इति श्रद्धामात्रावभासिभ्योऽन्तेवासिभ्यो व्याहरन्तमुपश्रुत्य केवलं श्रद्धामात्रेण अवभासो येषां ते श्रद्धामात्रावभासिनः तेभ्यः गुरु कथितं श्रद्धया श्रोतव्यम् इति मत्या तदभिप्रायं शृण्वद्द्भ्यः विद्यार्थिभ्यः व्याहरन्तं प्रतिपादयन्तम् उपश्रुत्य श्रुत्वा बृहस्पतिप्रज्ञः सुरगुरुतुल्यमतिः ( नारदः ) " पर्वत, मैवं व्याख्यः एवं विवरणं मा कुरु । किं तु 'न जायन्ते इत्यजाः वर्षत्रयवत्तयो व्रीहयस्तैयष्टव्यम् व्रीहयो धान्यमात्रं त्रैवार्षिकेषन्यैर्यष्टव्यं शान्तिकपौष्टिकार्था क्रिया कार्या इति परार्येव आचार्यादिदं वाक्यम् एवम् अश्रोत्र परारि एव गततृतीयवर्षे एव आचार्यमुखादिदं वचनम् अशृण्व ।' परुत्सजूस्तथैवा चिन्तयाव गतवत्सरे सहमिलित्वा आचार्यवचनाभिप्रायानुसारेण चिन्तनं चावां अकुर्वहि । तत्कथमेषम एव तव मतिः द्वापरवसतिः समजनि इति बहुविस्मयं मे मनः । तत्कथं केन कारणेन ऐषम एव अस्मिन्नेव वत्सरे तव मतिः द्वापरवसतिः संशयस्थानम् अजायत इति मम चित्तम् अतीवाश्चर्ययुक्तम्" आचार्यकनिकेत पर्वत, यद्येवमद्यश्वीनेscre (f) भिधाने भवान् अपरवानपि विपर्यस्यति तदा पराधीने मादृग्विधीने मादृशां विधिस्तस्य इने ईश्वरे को नाम संप्रत्ययः । आचार्यकगृह आचार्यसदृशेति भावः चेदेवम् अद्य श्वो वा भवम् अद्यश्वीनं तस्मिन् अश्वीने सद्य एव प्रतिपादिते अर्थाभिधाने शब्दानां वाच्यार्थप्रतिपादने भवान् अपरवान् अपि स्वाधीनोऽपि विपर्यस्यति, यथागमं न कथयसीत्यर्थः, तदा पराधीने मादृशे को नाम जनस्य संप्रत्ययः संवादः सम्यक् प्रतीतिः स्यात् ।
[ पृष्ठ १८४ ] पर्वतः - नारद, नेदमस्तुंकारम् इदं वचनं न स्वीकारार्हम् इति मे कथनम् । यदस्य शब्दस्य निरुक्तः मया निरुक्त्या कृत एव अर्थ: अतिसूक्तः अतिप्रशस्ततया उक्तः इति अर्थात् मया योऽर्थः निरुक्त्या प्रोक्तः स भवता ग्राह्यः इति न ममाग्रहः । परं यदि चायमन्यथा स्यात्तदा चेत् अयं मनिरुक्तोऽर्थः अन्यथा स्यात् विपरीततां गच्छेत् तदा रसवाहिनी खण्डनमेव दण्डः रसान् अम्लमधुरतुवरादिकान् वहति जानातीति रसवाहिनी जिह्वा तस्याः खण्डनं कर्तनमेव दण्डः दमनम् । नारदः - पर्वत, को नु खल्वत्र विवदमानयोनिकषभूमिः । को विद्वान् विवदमानयोः विवादं कुर्वाणयोः खलु अत्र अजशब्दार्थविवादे निकषभूमिः यथार्थनिर्णयदानाधारः, यथा निकषपट्टे सुवर्णस्य परीक्षा भवति तथा सभाध्यक्षे निरपेक्षे सति सत्तस्वनिर्णयो भवति । पर्वतः नारद, वसुः सभाध्यक्षः । ततो निर्णयो भवेत् । कहि तहि तं समयानुसर्तव्यम् । कदा तर्हि तं समया तस्य समीपम् अनुयातव्यम् । इदानीम् एव नात्रोद्धारः अधुनैव न विलम्बः । इत्यभिधाय तो द्वावपि वसुं निकषा वसोः समीपं प्रास्थिषाताम् अयाताम् । ऐक्षिषातां च अपश्यतां च । तथोपस्थितो तेन गुरुनिविशेषमाचरितसंमानो तथागतौ तेन वसुना गुरुसमानं कृतसत्कारौ यथावत् कृतकशिपुविधानौ दत्तान्नवस्त्रविधानी, विहिता चितोचितकाञ्चनदानौ विहितं दत्तम् आचितः भारः विशतिशतानि उचितं योग्यतामनुसृत्य काञ्चनस्य सुवर्णस्य दानं ययोस्तो समागमनकारणम् आपृष्टी अनुयुक्ती, स्वाभिप्रायं निजागमनस्य हेतुं वादनिर्णयम् अभाषिषाताम् अकथयताम् । वसुः - यथाहतुस्तत्रभवन्तो पूज्यौ यथा ब्रूतः तथा प्रातः एव प्रभातकाले एव अनुतिष्ठेय कुर्यामहम् । [ पर्वतमाता स्वस्तिमती वसुं प्रति गत्वा पर्वतानुकूलं न्यायदानं कुवित्युवाच तथास्त्विति प्रतिपन्नं तेन ] अत्रान्तरे वसुलक्ष्मीक्षयक्षपेव क्षपायां किल उपाध्याया अस्मिन् प्रसंगे वसुनुपस्य राजलक्ष्मीविनाशरात्रिरिव रात्री किल उपाध्याया, नारदपक्षानुमतं क्षीरकदम्बाचार्यकृतं तद्वाक्यव्याख्यानं स्मरन्ती स्वस्तिमती पर्वतपरिभवापाद्यबुद्धघा वसुमनुसृत्य नारदपक्षाभिप्रायानुकूलं क्षीरकदम्बसूरिविहितम् 'अजैर्यष्टव्यम्' इति वाक्यविवरणं चिन्तयन्ती
"
१. आचार्यस्य कर्तव्यं विद्यार्थिपाठनं तदाचार्यकमुच्यते । तस्य निकेतं गृहम् ।