SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ४०४ पं० जिनदासविरचिता [पृ०-१२५[पृ० १२५-१२८ ] ज्ञानभेदान् कथयति-ज्ञानमेकमिति-ज्ञायते अनेन वस्तुतत्त्वमिति ज्ञानम् इति लक्षणात् ज्ञानम् एकम् । पुनः तवेधा प्रत्यक्षपरोक्षभेदात् । पुनः पञ्चधा अपि मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानमिति तद्भवेत् । केवलज्ञानात् अन्यत्र केवलज्ञानं विना तत्प्रत्येक मतिमारभ्य मनःपर्ययान्तम् अनेकधा भवति । अनेकभेदभिन्नं भवति । केवलज्ञानं तु सर्वद्रव्यपर्यायविषयत्वादेकमेव ।।२६१॥ चारित्रलक्षणम्अधर्मति-अधर्मकर्माणि हिंसा, अनृतम्, स्तेयम्, मैथुनसेवा, ममत्वम् एतेभ्यः पञ्चपापेभ्यः अधर्मकर्मभ्यः निर्मुक्तिः रहितत्वं चारित्रलक्षणम, तथा धर्मकर्म विनिमिति: धर्मकर्मणां संसारदुःखतः उद्धत्य उत्तमसुखे धारयतां कर्मणां निर्मितिः आचरणम् अहिंसापालमम्,सत्यभाषणम्,चुरात्यागः, ब्रह्मचर्यम्, ममत्वत्याग, एतदाचरणं चारित्रम् तच्च सागारानगारयतिसंश्रयं गृहस्थैर्मुनिभिश्च धार्यमाणम् ॥२६२॥ देशत इति-यस्य नरस्य स्वर्गापवर्गयोः स्वर्गमोक्षयोः अन्यतरयोग्यता नास्ति स्वर्गगमन गात्रता मुक्तिगमनपात्रता वा नास्ति स नरः देशतः व्रतम् अणुव्रतस्वरूपं सर्वतो वा व्रतं महाव्रतस्वरूपं न लभते ॥२६३॥ देशत इति-चारुचारित्रविचारोचितचेतसां चारु सुन्दरं निर्दोषं तच्च तच्चारित्रं तस्य विचार विमर्श उचितं योग्यं मनो येपां तेषां निर्दोषचारित्रपालनेन स्वहितं कर्तुमिच्छतां जनानां गृहस्थानां मुनीनां च । प्रथमं चारित्रं देशतः स्यात् अणुव्रतरूपं तद्गृहस्थानां भवति । द्वितीयकं महाव्रतरूपं चारित्रं स्यात्तच्च मनीनां स्यात् । हिंसादिभ्यो देशतो विरतिरूपम् अणुव्रतम् । तेभ्यश्च सर्वतो विरतिरूपं महायतं भवति । गृहस्थानां देशचारित्रम, मनीनां च सर्वचारित्रमिति ॥२६४॥ तुण्डेति-सम्यक्त्वविधुरे नरे सम्यग्दृष्टि रहिते मनुष्ये शास्त्रं तुण्डकण्डूहरं मुखखर्जुविनाशकम् एव भवति । ततस्तस्य स्वात्मानुभवो न भवतीति भावः । तु ज्ञानहीने चारित्रं दुर्भगाभरणोपमं दुर्दुष्टं भगं भाग्यं यस्याः सा तस्याः आभरणधारणोपमम् । यस्या उपरि पतिस्नेहो नास्ति तस्या आभरणधारणं यथा विफलं भवति तथा ज्ञानहीनस्य चारित्रधारणं विफलं भवति ॥२६५।। सम्यक्त्वादीनां प्रत्येकं फलमभिलपति-सम्यवस्वात सुगतिः स्वर्गगतिरुक्ता । ज्ञानात् इहलोके कोतिः उदाहृता कथिता । वृत्तात्पूजाम् अवाप्नोति चारित्रधारणात् पूजां लोकादरं लभते। त्रयाच्च एकलोली भावं प्राप्ताद्रत्नत्रयाच्छिवं मोक्षं लभते जीवः।।२६६।। सम्यक्त्वादोनां लक्षणानिरुचिरिति-तत्त्वेषु जीवादिषु रुचिः प्रीतिः सम्यक्त्वम् । तत्त्वनिरूपणं स्याद्वादेन जोवादितत्त्वकथनं ज्ञानम् । सर्वनियोज्झितं सकलकायवाइमनोयोगरहिताम् आत्मनि स्थितिम उदासीनरूपां परम् उत्तमं वृत्तं : ब्रुवन्ति ।।२६७॥ आत्मपारदसिद्धरुपायः-वृत्तमिति-वृत्तं चारित्रम् अग्निः अग्नितुल्यम्, धी: सम्यग्ज्ञानम् उपायः साध्यसाधने हेतुः, च सम्यक्त्वम्, रसौषधिः पारदसिद्धिकरणे विशिष्टवनस्पतिरूपम् पारदौषधम्, तल्लाभात् तेषां त्रयाणां प्राप्तेः आत्मा एवं पारद: सूतः स साधु समीचीनरूपेण सिद्धः प्राप्यः लभ्यः भवेत् ॥२६८।। सम्यक्त्वादीनाम् आश्रयादोन् वर्णयति-सम्यक्त्वस्येति-चित्तं मनः सम्यक्त्वस्य आश्रयः आधारः। मतिसंपदः ज्ञानसंपत्तेः आश्रयः अभ्यासस्तस्माद् ज्ञानं वर्धते इति । चारित्रस्य आधारः शरीरं देहः स्यात् । दानादिकर्मणः दानम् आदौ यस्य कर्मणः देवपूजादेः तस्य वित्तं धनम् आधारः स्यात् ।।२६९।। इत्युपासकाध्ययने रत्नत्रयस्वरूपनिरुपणो नाम एकविंशतितमः कल्पः ॥२१॥ २२. मद्यप्रवृत्तिदोषदर्शनो नाम द्वाविंशः कल्पः [पृष्ठ १२८-१२६ ] पुनरिति-यथा गुणमणिकटक, गुणा एव मणयो रत्नानि तेषां कङ्कणभूत हे मारिदत्त नृप । यथा माणिक्यस्य पद्मरागमणेः यत् वेकटकर्म अग्निशोधनलेखनादिकर्म तत्तस्य उपबृंहकं गुणवर्धकं भवति । यथा प्रासादस्य महाहर्यस्य सुधाविधानं सुधया चर्णेन विविधरङगाणां लेपनेन क्रियमाणं कर्मः १. अत्र यशस्तिलकचम्पूकाव्यस्य षष्ठ आश्वासः समाप्यते, यथा-इति सकलताकिकलोकचूडामणे: श्रीमन्नेमिदेवभगवतः शिष्येण सद्योनबद्य पद्यगद्य विद्याधरचक्रवर्तिशिखण्डमण्डनीभवच्चरणकमलेन थीसोमदेवसूरिणा विरचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्न्यपवर्गमहोदयो नाम षष्ठ आश्वासः ॥६॥
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy