SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ३८३ -पृ०८५] उपासकाध्ययनटीका वारिषेण, पर्याप्तम् अत्रावस्थानेन, अत्रालम् उपवेशनेन । प्रकामम् अतिशयेन शकलितं खण्डितं कुसुमास्त्रस्य मदनस्य रहस्यं गूढस्वरूपं येन तत्सम्बोधनम्, हे वयस्य हे सखे, इदानीमधुना, यथार्थनिर्वेदावनिः यथार्थः वस्तुभूतः निर्वेदः विरक्तिभावः तस्य अवनिः स्थानम् अहं मनोमुनिरस्मीति सनसा मुनिः भावेन मुनिरस्मि इति च अवधाय विज्ञाय, विशद्धहृदयौ तौ द्वावपि चेलिनीमहादेवीम अभिनन्द्य, उपसद्य च गरुपादोपशल्य गुरुचरणसमीपम् उपसद्य स्थित्वा च निःशल्याशयो मायामिथ्यात्वनिदानशल्यरहिताभिप्रायो साधु तपश्चक्रतुः । भवति चात्र श्लोकः-सदतीति-कृतत्राणः कृतं त्राणं रक्षणं येन स वारिषेणः सदतीसंगमासक्तं । तपस्विनं पुष्पदन्तं संयमे स्थापयामास ॥२०२॥ इत्युपासकाध्ययने स्थितिकारकीर्तनो नाम चतुर्दशः कल्पः ॥१४॥ १५. वज्रकुमारस्य विद्याधरसमागमो नाम पञ्चदशः कल्पः [ पृष्ठ ८२ ] चैत्यैरिति-चैत्यः जिनबिम्वः, चैत्यालयः जिनमन्दिरः विविधात्मकः ज्ञानः व्याकरणकाव्यन्यायधर्मशास्त्राणां ज्ञानैः, विविधात्मकैः तपोभिः अनशनादिद्वादशविधस्तपोभिः, पूजामहाध्वजाद्यश्च नित्यपूजा, अष्टाह्निकपूजा, इन्द्रमहपूजा महामहपूजादिभिः मार्गप्रभावनां कुर्यात् जिनधर्म प्रभावयेत् ॥२०३॥ [पृष्ठ ८३ ] ज्ञाने, तपसि, पूजायाम् । केषां यतोनां यः असूयति मत्सरं करोति मुनीनां ज्ञानम्, तपः उपासनां च दृष्ट्वा यो दुर्धीः असूयति तेषां गुणेभ्यः द्रुह्यति नूनं सत्यमेव तस्यापि स्वर्गापवर्गभूलक्ष्मोः सुरेन्द्रलक्ष्मीः तथा अपवर्गभूलक्ष्मोः मोक्षभूमिलक्ष्मीः असूयति मत्सरं करोति उभे ते लक्ष्म्यो तस्मान्नराद् दूरं तिष्ठतः इति भावः ॥२०४॥ समर्थ इति-यो धार्मिको नरः चित्तेन धैर्यादिना ज्ञानेन वा, वित्तेन धनधान्यवस्त्रादिदानेन इह अस्मिन्देशे समर्थः सन्नपि अशासनभासक: शासनस्य जिनधर्मस्य भासकः प्रभावनाकारको न स्यात् स चित्तवित्ताभ्यां समर्थः सन्नपि अमुत्र परलोके न भासकः भासको न भवति । तस्य स्वर्गादिलक्ष्मीर्वशा न भवतीति भावः ॥ २०५ ॥ तद्दानेति-तस्मात् दानश्चतुर्विधः, ज्ञान: आध्यात्मिकैरागमजैश्च विज्ञानः, चतुःषष्टिकलानां ज्ञानः, महामहमहोत्सवैः महामहादिपूजाविशेष: धनिकै राजभिश्च क्रियमाणैः एहिकापेक्षयोज्झितः अहं देवः स्यामहं वसुमतीपतिः स्यामिति इहलोकसंबन्धिधनाद्यभिलाषया मुक्तः धार्मिकः दर्शनोद्योतनं कुर्यात् दर्शनस्य प्रकाशनप्रभावनां कुर्यात् ॥२०६॥ . [पृष्ठ ८४-८५] श्रूयतामत्रोपाख्यानम्-अंत्र प्रभावनागुणे आख्यानं प्रसिद्धा कथा श्रृयताम् आकर्ण्यताम् व्रजकुमारस्य कथां शृण्वन्तु जना इति भावः । पञ्चालदेशेषु श्रीमदिति-श्रियानन्तचतुष्टयलक्ष्म्या युक्तस्य पार्श्वनाथपरमेश्वरस्य यशःप्रकाशनपात्रे अहिच्छत्रनामनगरे चन्द्राननाख्या या अङ्गना नारी सा एव रतिः तस्याः कुसुमचापस्य मदनस्य द्विषन्तपस्य तन्नामधेयस्यं भूपतेः सोमदत्तो नाम पुरोहितोऽभूत् । कथंभूतः सः उदितोदितकुलशीलः प्रति पुरुषम् अधिकाधिकतया प्राप्तोदये उन्नति प्राप्ते कुलशीले वंशसदाचारी यस्य सः षडगे वेदे शिक्षा-कल्प-व्याकरण-निरुक्त-ज्योतिष-च्छन्दांसि वेदस्य षडङ्गानि तदात्मके वेदे देवे देवविषये, निमित्त अष्टांगनिमित्ते, दण्डनोत्यां च अभिविनीतमतिः कुशलधीः । दैवीनां देवताप्रकोपजातानाम, मानुषीणां मनुष्यररिभिरुत्पादितानाम् आपदां प्रतिकर्ता निवारकः, यज्ञदत्ताभट्टिनोभर्ता तन्नामधेयाया ब्राह्मण्या भर्ता पतिः, सोमदत्तो नाम पुरोहितोऽभूत् । एकदा तु सा किल यज्ञदत्ता अन्तर्वत्नी अन्त: गर्भमध्यस्थम् अपत्यं विद्यतेऽस्या इति गर्भिणीत्यर्थः, सती माकन्दमञ्जरीकर्णपूरेषु माकन्द आम्रतरुः तस्य मर्याः कर्णपूरेषु तन्नामकालङ्कारेषु तत्परिणतफलाहारेषु च समासादितदोहला लब्धेच्छावती अभूत् । व्यतिक्रान्तरसालवल्लरीफलकालतया व्यतीताम्रमजरीफलसमयत्वात्, कामितम् अभिलषितं अनाप्तवती अलभमाना, शिफासु व्यथमाना प्रतानिनीव शिफासु मूलेषु पीडायुक्ता वल्लीव तनुतानवं देहकाश्य उपेयुषी जग्मुषी तेन पुरोहितेन ज्ञातिजनेन वन्धुगणेन च प्रबन्धेन आग्रहेण पृष्टा हृदयेष्टं मनोऽभिलाषम् अभाषिष्ट अब्रूत । भट्टस्तन्निशम्य श्रुत्वा "कथम् एतन्मनोरथम अयथार्थपथम् अस्मन्मनोमथं अव्यर्थ प्रार्थनं कथं करिष्यामि" एतन्मनोरथं अस्या यज्ञदत्तायाः
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy