SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ - पृ० ६२ ] उपासकाध्ययनटीका ३६७ F 1 वा तस्य आरम्भः तेन पतितं शरीरं यस्य तं मायामुनिम् । सप्रयत्नेति - सप्रयत्नी च तो करो हस्तौ तयोः स्थानः बलस्य सीमा मर्यादा यथा स्यात्तथा तं मायामुनि समुत्थाप्य । जलेति – जलात् जनितः क्षालनस्य प्रसङ्गो यस्य तम् । पुनः कथंभूतम् । उत्तरीयेति - उत्तरीयं देहस्योपरि उत्तरभागे धार्यमाणं वस्त्रम् उत्तरीयं तच्च तत् दुकूलं पट्टवस्त्रं तस्य अञ्चलं प्रान्तभागः तेन विलुप्तः निराकृतः सलिलस्य जलस्य संगः स्पर्शो यस्य तम्, अङ्गसंवाहनेन शरीरविमर्दनेन, अनुकम्पनस्य दयायाः विधानं प्रदर्शनं येषु तादृग्वचनानां रचनेन दयावचनानां उच्चारणेन साधु समाश्वासयत् आश्वासं सन्तोषमजनयत् । ( मायामुनिरात्मरूपं प्रकटीकृत्य स्तुत्वा चोद्दायनं स्वर्गं जगाम ) कथंभूतो मायामुनिः । प्रमोदेति - प्रमोद एव हर्ष एव अमृतं सुधा तेन अमन्दं परिपूर्णं यहृदयं तदेव आलवालवलयं अम्भसो धारणार्थं यद्वेष्टनं तस्य वलयं तत्र उल्लसन्ती विकसन्ती या प्रीतिः सा एव लता तदर्थम् अवनिरिव भूमिरिव स सुरचरः भूतपूर्वः सुरः स मुनिः यथैवायम् उद्दायनभूपो वर्णितः तथैवायं निर्वाणइति कथयति । कुत्र वर्णितः । परिषदि सभायाम्, कथंभूतायां त्रिदिवोत्पादि त्रिदिवे स्वर्गे उत्पादो यस्याः सा तस्याम् पुनः कथंभूतायाम् । सद्दर्शनेति – सद्दर्शनस्य सम्यक्त्वगुणस्य श्रवणाय उत्कण्ठितं हृद् मनो यस्याः तस्यां परिषदि, ( इन्द्रेण यथायमुपर्वाणतस्तथायं मया निर्वणतः ) कथंभूतेन इन्द्रेण । विबुधप्रधानेन विबुधेषु देवेषु प्रधानेन श्रेष्ठेन पुनः कथंभूतेन गुणेति - गुणानां सम्यक्त्वादीनां ग्रहणं तत्र रुचिः प्रदर्शनं तस्य आग्रहोऽभिनिवेशः तत्र निधानेन निधिस्वरूपेण । प्राज्येति - प्राज्यं समृद्धं यत् राज्यं तदेव समज्या सभा तत्र अर्जुन इव सजिता उत्पादिता जगत्त्रय्यां त्रिलोक्यां निजनामधेयस्य स्वनाम्नः स्वकीर्तेः प्रसिद्धिः प्रख्यातिर्येन सः पुनः कथंभूतः । यथोक्तेति -- यथोक्तम् आगमे यथा प्रतिपादितं सम्यक्त्वं सम्यग्दर्शनस्वरूपं तथा तस्य अधिगमात् प्राप्तेः, अवधेया जोवादिपदार्थेषु समाहितुं योग्या बुद्धिर्यस्य स उद्दायनो नृपः यथा उपवर्णितः व्यावर्णितः स्तुतो वा तथैव मया ( वासवनामधेयेन देवेन ) निर्वणित: परीक्षितः इति विचिन्त्य प्रकटितेति - ( आविष्कृत निजरूपाडम्बरः, तम् उद्दायनम् अवनीश्वरं नृपं संभाव्य संमान्य स्वर्ग जगामेति संबन्धं कथयति कविः ) कैः संभाव्य अमरेति - अमराणां तरवः कल्पवृक्षाः तेषां प्रसूनानि पुष्पाणि तेषां वर्षा वृष्टिः, आनन्ददुन्दुभीनां प्रमोदभेरीणां नादो ध्वनिः तस्य उपघातेन मिश्रणेन शुचिभिः निर्मलैः । साधुकारेतिसाधुकारः साधुकृतं साधुकृतमिति उच्चारणं साधुकारः तस्मिन् परः साधुकारपरः स चासो व्याहारों भाषणं तस्यावसरो वेला तेन शुचिभिः सुन्दरः उदारैः महद्भिः उपचारैः पूजनः आदरैः संभाव्य, पुनः कैः संभाव् उच्यते - अनिमिषेति - अनिमिषा देवास्तेषां विषयो देशः स्वर्गः तत्र संभूष्णवः भवनशीलास्तैः । मन इतिचित्तेप्सितप्राप्तो विष्णुभिः जित्वरैः समर्थः क्षमेरिति यावत्, तैस्तैः पठितमात्रेण विधेयैः साध्यैः विद्योपदेशगर्भः विद्योपदेशो गर्भे येषां तैः मन्त्रः तथा वस्त्रसंदर्भश्च वसनानां संदर्भः रचनाभिश्च संभाव्य संपूज्य सुरसेव्यं देशमाविवेश स्वर्गं जगामेत्यभिप्रायः । [ पृष्ठ ६१ ] भवति चात्र श्लोकः — बालेति — - बालवयसा यतीन् वृद्धयतीन् गदेन रोगेण ग्लानान् पीडितान्, मुनीन् ओद्दायनो नृपः स्वयं प्रेरणया विना स्वकर्तव्यमेतदिति बुद्धधा भजन् सेवमानः निर्विचिकित्सात्मा जुगुप्सां मनागपि अकुर्वाणः पुरन्दरात् इन्द्रात् स्तुति प्रशंसां प्रापतु लेभे ॥ १७२॥ इत्युकासकाध्ययने निर्विचिकित्सासमुत्साहनो नाम नवमः कल्पः ॥ ९॥ १०. अमूढदृष्टिगुणोपाख्यानं नाम दशमः कल्पः । [ पृष्ठ ६१ ] अन्तरिति — आत्मनि दुरन्तो दुःखदायकः संचारो भवभ्रमणं यस्मात् बहिरितिबाह्यस्वरूपे सुन्दरं शोभावहम् एतत्कुदृष्टीनां बोद्धनैयायिकादीनां मतं किपाकसंनिभम् कुत्सितः पाकः परिणामो यस्य तस्य विषफलस्य संनिभं तुल्यम् मतं न श्रद्दध्यात् न विश्वस्यात् ॥ १७३ ॥ श्रुतीति - श्रुत्याम्नाय : वैदिकमतम् । शाक्याम्नाय : सौगतमतम् । शिवाम्नायः शिवमतम् । क्षौद्रं मधु, मांसं प्रतीतम् । आसवो मदिरा एते आधारा अधिष्ठानानि येषां ते । वैदिका मघु ग्राह्यं वदन्ति । सौगता मांसभक्षणमामनन्ति । शैवाम्नाये मद्यपान
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy