SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ३५४ पं० जिनदासविरचिता [ पृ० ४१ स नरः इहलोके परलोके च रिक्त एव भवति । संशयादिदं न लभ्यते परं च विनश्यति । अतः संशयो न कर्तव्यः ॥ १५१ ॥ [ पृष्ठ ३९-४१ ] श्रूयतामत्रोपाख्यानम् - आकर्ण्यतामत्र निःशङ्किताङ्गे संशये च कथा— इहैवेति — अनेकानि आश्चर्याणि कुतूहलोत्पादकानि वृत्तानि समीपानि यस्य तस्मिन् जम्बूद्वीपे । जनपदाभिधानास्पदे जनपदनामके जनपदे देशे इत्यर्थः । भूमितिलकनामनगराधिपतेः नरपालनामनृपस्य श्रेष्ठी सुनन्दनामास्ति । कथंभूतस्य नृपस्य । गुणमाला महादेवीरतिकुसुमशरस्य सा महादेवी एवं रतिः कामजाया तस्याः कुसुमशरस्य मदनस्य । अस्य श्रेष्ठिनः पत्नी सुनन्दा नामास्ति । कथंभूता सा जनितेति - जनित: उत्पादितः निखिलपरिजनानां हृदयेषु आनन्दो यया सा । अनयोः दम्पत्योः, धन्वन्तरिर्नाम सूनुः । कथंभूतः । घनबन्वादिभ्रातृषट्कजन्मानन्तरम् अनुजः अनु पश्चात् जातस्तेभ्यः सर्वेभ्यः कनिष्ठः इति भावः । पुनः कथंभूतः सः | सकलेति — सकलानि सर्वाणि कूटानि असत्यभाषणानि कपटानि दम्भाः, तद्युक्तानि च यानि चेष्टितानि कृत्यानि तत्करणे हरिरिवेति कृष्ण इवेति । तथा नरपालनामनृपस्य पुरोहितः सोमशर्माऽग्निलाभार्यया सह सुखेनास्थात् । तयोर्दम्पत्योः विश्वानुलोमो नाम विश्वरूपादिपुत्रेभ्योऽनवरजः ज्येष्ठः सकलसदाचारविरुद्धः सुतः आसीत् । सुनन्दश्रेष्ठिनः कनिष्ठस्तनयो धन्वन्तरिविश्वानुलोमश्च पुरोहितपुत्रः उभावपि सहधूलि - केलिकरणात्, समानस्वभावगुणदोषवत्त्वात्, दुग्धजलवदाचरितसुहृद्भावो, द्यूतसुरापानपरस्त्रीसेवन चौरिकाद्यसम्यजनोचितकार्येषु । तत्पर्यायेषु तत्सदृशेषु च कार्येषु प्रवर्तने मुख्यभावं गतौ सन्तो तेन अवनीपतिना अवन्या: पृथ्व्याः पतिरवनीपतिः नरपालनामा राजा तेन सनिकारं धिक्कारं कृत्वा निर्वासितो स्वदेशान्निर्घाटितौ । कुरुजाङ्गलदेशेषु वोरमतिमहादेवीत्ररेण वीरनरेश्वरनाम्ना भूभुजाधिष्ठितम् अध्युषितम्, यमदण्डतरवालेन कोट्टपालेन संश्रितं सकलभवसारसीमन्तिनीभिः ललनाभिर्मनोहरं चेतोलुण्टाकम्, हस्तिनागपुरं प्राप्य तत्र तो धन्वन्तरिविश्वानुलोमो अवस्थितौ । कदाचित्तो नित्यमण्डितं नाम चैत्यालयम् आसादयामासतुः प्रापतुरित्यर्थः । कस्मिन् समये संध्यासमये । कथंभूते । अस्तेति — अस्तगिरिशिखरभूषणभूतसूर्योष्णतासमूहे संध्यासमये मद एव सखी तया कलुषितगण्डस्थलकोटिनिलीन निभृतस्थित भृङ्गसमूहलिह्यमान वदनवस्त्र विस्तार रचनाविस्तारयुक्तात्, नीलगिरिगजात् स्वैरं संमुखं निवृत्य परावृत्य आगच्छन्ती श्रीधर्माचार्येण उच्चैरुच्यमानधर्मश्रवणाय उचितं योग्यं नित्यमण्डितं नाम चैत्यालयं जिनमन्दिरम् आसादयामासतुः प्रापतुः । तत्रेति – तत्र जिनमन्दिरे धन्वन्तरिं वक्ष्यमाणमुक्त्वा विश्वानुलोमः सुष्वाप । किमुक्तं तेन । उच्यते - " धन्वन्तरे, चेत् मुरामांस रोचकभक्ष्यद्रव्यप्रभृतीनि भवसुखानि निरर्गलमनुभवितुम् आस्वादितुमिच्छसि तदा वा अयम् अम्बराम्बरावृतवपुषाम् अम्बरम् आकाशं तदेव अम्बरं वास तेन आवृतं पिहितं वपुः शरीरं येषां तेषां जैनाचार्याणां धर्मो न श्रोतव्यः नाकर्णनीयः " इत्यभिघायोक्त्वा विषाय च आच्छाद्य च कर्णयुगम्, अतिनिर्भरम् अतिशयेन गाढं प्रमीलावलम्बिलोचनायामः निद्रालस्याश्रितनेत्रदैर्घ्यः विश्वानुलोमः सुष्वाप निदद्रौ । किं तदाऽऽचार्यवचनं यच्छ्रुत्वा धन्वन्तरिरुवाच तत्कथ्यते - " प्राणिना हि नियमेन किमपि स्वल्पमपि व्रतम् अचलितात्मतया दृढस्वभावेन उपात्तं गृहीतम् उदर्के उत्तरकाले लप्स्यमाने निश्चयेन स्वः श्रेयसि शिवे निमित्तं निदानं स्यात् ।" इति प्रसंगवशादागतम् उदितं भाषणं श्रुत्वा नमस्कृत्य च एवं तहि यदि भगवन्, पूज्य, अयमपि जनः कस्यापि व्रतस्य प्रदानेन वितरणेन अनुगृह्यतामुपक्रियताम् इत्यवोचत् अब्रवीत् । तदनु धन्वन्तरिणा कृतविज्ञप्तेः अनन्तरं सूरेः आचार्यात् " खलतिविलोकनात् त्वया अत्तव्यम्" खलते: खल्वाटस्य नष्टमस्तक केशस्य नरस्य विलोकनात् दर्शनात् त्वया अत्तव्यम् अनं भक्षणीयम् इति दत्तव्रतग्रहणेन कुलालात् कुम्भकारात् लब्धनिधानः प्राप्तघनकुम्भः । पयः पुराविष्टपिष्टकशकटपरित्यागात् दुग्धपू रभूतपिष्टकभक्ष्ययुक्तस्य शकटस्य स धन्वन्तरिः त्यागं कृतवान् यतस्तत्र पिष्टकभक्ष्ये उरगः सर्पो निजं गरलं विषम् उद्गीर्य वमित्वा गत आसीत् तेन स अजनितमरणसंगम आसीत् । अज्ञात वृक्षत्यागेन उल्लङ्घितकिम्पाक फलभक्षणापत्तिः । पुनः अविमृश्य किमपि कार्यं नाचरणीयम् इति गृहीतव्रतविधिः । एकदा निशायां नगरनायकनिलये नगरस्य नायकः नृपस्तस्य निलये प्रासादे नटनुत्यनिरीक्षणात्कृत कालक्षेपणः नटानां नृत्यस्य निरीक्षणेनावलोकनेन कृतकालव्ययः, स्वावासं निजगृहम् अनुसृत्य शनैः विघटितकपाटपुट
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy