SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ उपासकाध्ययनटीका ३४१ [पृष्ठ ९] न्यक्षेति-न्यक्षवीक्षाविनिर्मोक्षे निर्गतानि अक्षाणि यस्याः सा अथवा निर्गता अक्षेभ्यो या सा न्यक्षा अतीन्द्रिया सा चासौ वोक्षा विशिष्टश ईक्षा वोक्षा। इन्द्रियवीक्षामा भिन्ना अतीन्द्रियज्ञप्तिरित्यर्थः । तस्याः विनिर्मोक्षे तस्मादहिते मोक्षे यदि मते तहि कि मोक्षिलक्षणम् । मोक्षः अस्य अस्तीति मोक्षी तस्य लक्षणं किं स्यात् । न किमपि । यतः ज्ञानम् आत्मलक्षणं तस्य सर्वथा उच्छेदे मोक्षिण: आत्मनो लक्षणं नश्येत् । यथा अग्नौ उष्णत्वात् अन्यत् इतरत् लक्ष्यलक्षणं विचक्षणः विद्वद्भिः न लक्ष्यं लक्षयितुं न योग्यम् । औष्ण्यमेव अग्नेलक्षणं तदभावे अग्नेः अभावः । तथा चैतन्यम् एव आत्मनः लक्षणम् । तदभावे अभाव: आत्मनः स्यात् ॥३३॥ किं चेति-किं च, सदा शिवेश्वरादयः संसारिणः मुक्ता वा। संसारित्वे कथमाप्तता। संसारिषु दोषा रागादयः सन्ति । तेषां सद्भावे सर्वज्ञता न स्यात् । विना सावश्यं मोक्षमार्गप्रणीतेः असंभवात् । मुक्तत्वे 'क्लेशकर्मविपाकाशयः अपरामृष्टः पुरुषविशेष ईश्वरः तत्र निरतिशयं सर्वज्ञबीजम्' इति पतञ्जलिजल्पितम् । क्लेशदायकानां कर्मणाम् अज्ञानादीनां विपाक: उदयस्तस्मात् जातैः आशयः रागद्वेषपरिणामैः अपरामृष्टः रहितः पुरुषविशेषः ईश्वरः, तत्र निरतिशयं तारतम्यरहितं सर्वज्ञबीजम् इति पतञ्जलिभाषितम् । ऐश्वर्यत्यादिऐश्वर्यम् अप्रतिहतम् अणिमामहिमादिरूपम् अष्टविधं केनापि अप्रतिरुद्धम् । सहजो विरागः स्वाभाविकी विषयविरक्तिः। निसर्गजनिता ताप्तिः स्वभावाज्जात: संतोषः। इन्द्रियेषु वशिता जितेन्द्रियत्वमिति भावः । आत्यन्तिकं सुखम् अन्तं विनाशम् अतिक्रान्तम् अत्यन्तं विनाशरहितं तत्र भवम् आत्यन्तिकं सुखम् अविनाशिसुखम् । वैयिकसुखव्यतिरिक्तमात्मानन्दजं सुखम् । अनावरणा आवरणरहिता शक्तिः अप्रतिहतवीर्यम् । तथा सर्वविषयं ज्ञानं सूक्ष्मान्तरितदूरार्थेषु प्रत्यक्षं ज्ञानम् । हे भगवन्, त्वयि एव विद्यते । इत्येतदाप्तलक्षणं रागादिभिः उपद्रुते रुद्रे आप्तत्वप्रक्लप्ती विरुध्यते ॥३४॥ अनेकेति-अनेकजन्मसंतते: अनेकानि च तानि जन्मानि च अनेकजन्मानि तेषां संततिः परंपरा तस्याः अनेकजन्मसंततेः । अस्य पुंसः संसारे चतुर्गतिषु भ्रमतः अनन्तानि जन्मानि व्यतीतानि । तथापि यावदद्य अक्षयः क्षयरहितः असौ जीवः अस्ति यदि । मुक्त्यवस्थायां कुतो हेतुतः कस्मात्कारणात् क्षीयेत क्षयः तस्य जीवस्य स्यात् । पुंसः अनादिनिधनत्वात् तस्य मुक्त्यवस्थायां नाशाभिमननं मलक्षयात् सुवर्णनाशाभिमननवत अयुक्तं प्रतिभाति ॥३५॥ [पृष्ठ १० ] कापिला द्रष्टुः स्वरूपेऽवस्थानं मुक्तिरिति मन्यन्ते तदभिमतं दूषयति-बाह्ये ग्राह्ये इति-मलापायात् वातपित्तकफादीनां वैषम्याभावात् बाह्ये ग्राह्ये बाह्ये वस्तुनि यथा सत्यस्वप्नो भवति तथा मलापायात् कर्ममलविनाशात् बाह्ये ग्राह्ये इव द्रष्टुः आत्मनः स्वरूपे अवस्थानं भवति । परं द्रष्टुः स्वरूपे एव अवस्थानं अनुभवो भवति न बाह्ये इति कथनम् अमानकं प्रमाणरहितम् । चैतन्यं खलु स्वपरावभासकम् । मलापगमे तु सकलं वस्तुजातम् अन्तर्बाह्यं तद्वेत्येव प्रतिबन्धकापायात् ॥३६॥ न चायमिति-न चायं सत्यस्वप्नः अप्रसिद्धः, स्वप्नाध्यायेऽतीव सुप्रसिद्धत्वात । तथा हि-यस्त्विति-राज्यन्ते निशायाः चरमे यामे यो नरः नपं राजानम । कूजर गजम । हयं अश्वम । सूवर्ण बलोवदं धेनुं महीं च पश्यति तस्य कुटुम्ब वर्धते ॥३७॥ यत्रेति-यत्र यस्मिन मक्तात्मनि नेवादिक नेत्रादिकानि इन्द्रियाणि न सन्ति तत्र मुक्तात्मनि मतिः ज्ञानं नास्ति इति सांख्ये वदति सति सूरिभिरुच्यते तन्न, यतः अन्धोऽपि स्वप्नं वीक्षते पश्यति । नेत्राभ्यां विनापि अन्धो यथा स्वप्ने पश्यति तथा इन्द्रियाभावेऽपि अशरीरः मुक्तात्मा सचराचरं जगत् जानाति पश्यति च ॥३८॥ पुरुषत्वात् पाण्यादिमत्त्वात् नरः सर्वज्ञो न भवतीति मीमांसकमतं निरस्यति-जिमिन्यादेः इति. जिमिन्यादेः पुरुषत्वेऽपि यदि तस्य मतिः ज्ञानं प्रकृष्येत प्रकर्ष यायात् तर्हि तस्या मतेः क्वचिन्नरि मानवे सर्वक्लेशकर्मरहिते महात्मनि प्रकर्षः पराकाष्ठापि स्यात् । यथा परिमाणं परमाणुम् आरभ्य खे विश्राम्यति । आकाशे परिमाणस्य प्रकर्षः समाप्ति याति ॥३९॥ [पृष्ठ ११] तुच्छाभाव इति-कस्यापि वस्तुनः तुच्छाभावः सर्वथा अभाव: विनाशः न । हानिः न । दीपः सर्वथा नश्यति इत्यपि न युक्तम् । दोपे वायुना प्रशान्तिमिते तस्य सर्वथा नाशो जातः इति वचनं न युक्तम् । दीपस्तदा तमसा अन्वयी तमःस्वरूपं याति दीपः । धरादिषु पृथिव्यप्पवनादिषु धियः बुद्धः हानी सत्यां विश्लेषो भवति इति सिद्धसाध्यता भवेत् । यावत्कालं धरादयः जीवेन शरीररूपेण गृहीतास्तावत्कालं
SR No.022417
Book TitleUpasakadhyayan
Original Sutra AuthorSomdevsuri
AuthorKailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2013
Total Pages664
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy