SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ સમયસાર : આત્મખ્યાતિ જીવના નથી સ્થિતિબંધ સ્થાનો, નથી સંક્લેશ સ્થાનો, નથી વિશુદ્ધિ સ્થાનો અને નથી સંયમલબ્ધિ સ્થાનો. ૫૪ અને જીવના નથી જીવસ્થાનો અને નથી ગુણસ્થાનો, કારણકે આ સર્વેય પુદ્ગલ દ્રવ્યના પરિણામો छे. पथ आत्मख्याति टीका जीवस्य नास्ति वर्णो नापि गंधो नापि रसो नापि च स्पर्शः । नापि रूपं न शरीरं नापि संस्थानं न संहननं ॥५०॥ जीवस्य नास्ति रागो नापि द्वेषो नैव विद्यते मोहः । नो प्रत्यया न कर्म नोकर्म चापि तस्य नास्ति ॥५१॥ जीवस्य नास्ति वर्गो न वर्गणा नैव स्पर्द्धकानि कानिचित् । नो अध्यात्मस्थानानि नैव चानुभागस्थानानि ॥ ५२ ॥ जीवस्य न संति कानिचिद्योगस्थानानि न बंधस्थानानि वा । नैव चोदयस्थानानि न मार्गणास्थानानि कानिचित् ॥५३॥ नो स्थितिबंधस्थानानि जीवस्य न संक्लेशस्थानानि वा । नैव विशुद्धिस्थानानि नो संयमलब्धिस्थानानि वा ॥ ५४ ॥ नैव च जीवस्थानानि न गुणस्थानानि वा संति जीवस्य । येन त्वेते सर्वे पुद्गलद्रव्यस्य परिणामाः ॥ ५५ ॥ यः कृष्णो हरितः पीतो रक्तः श्वेतो वर्णः स सर्वोपि नास्ति जीवस्य । पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेन्नित्वात् । यः सुरभि दुरभि वो गंधः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यः कटुकः कषायः तिक्तोऽम्लो मधुरो वा रसः स सर्वोपि नास्ति जीवस्य । पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेत्वात् । यः स्निग्धो रूक्षः शीतः उष्णो गुरुर्लघुर्मृदुः कठिनो वा स्पर्शः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यत्स्पर्शादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यदौदारिकं वैकियिकमाहारकं तैजसं कार्मणं वा शरीरं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्य परिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यत्समचतुरस्रं न्यग्रोधपरिमंडलं स्वाति कुब्जं वामनं हुंडं वा संस्थानं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यद्वज्रर्षभनाराचं वज्रनाराचं नाराचमर्द्धनाराचं कीलिका असंप्राप्तासृपाटिका वा संहननं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यः प्रीतिरूपो रागः स सर्वोपि नास्ति जीवस्य पुद्गलपरिणामयत्वे सत्यनुभूतिर्भिन्नत्वात् । ३८
SR No.022415
Book TitleSamaysara Part 01
Original Sutra AuthorN/A
AuthorBhagwandas Mansukhbhai Mehta
PublisherShrimad Rajchandra Ashram
Publication Year
Total Pages1016
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy