SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ९०६ षड्दर्शन समुशय, भाग- २, परिशिष्ट - ८, वेदांतदर्शन - परिशिष्ट - ८ शास्त्रवार्तासमुच्चयान्तर्गतवेदान्तदर्शनसङ्ग्राहकश्लोकाः ।। अन्ये त्वद्वैतमिछन्ति, सद्ब्रह्मादिव्यपेक्षया । सतो यर्दोदकं नान्यत्तच्च तन्मात्रमेव हि ।।१।। यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिभिन्नाभिरभिमन्यते ।।२।। तथेदममलं ब्रह्म निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रकाशते ।।३।। अत्राप्यन्ये वदन्त्येवमविद्यया न सतः पृथक् । तय तन्मात्रमेवेति भेदाभासो निबन्धनः ।।४।। सैवाथभेदरूपापि भेदाभासनिबन्धनम् । प्रमाणमन्तरेणैतदवगन्तुं न शक्यते ।।५।। भावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः । ननु नाद्वैतमेवेति तदभावे प्रमाणकम् ।।६।। विद्याविद्यादिभेदाच स्वतन्त्रेणैव बाध्यते । तत्संशयादियोगाश्च प्रतीत्या च विचिन्त्यताम् ।।७।। अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्धये । अद्वैतदेशनाशास्त्रे निर्दिष्टा नतु तत्त्वतः ।।८।। नचैतद्बाध्यते युक्तया सच्छास्त्रादिव्यवस्थितेः । संसारमोक्षभावाच तदर्थं यत्नसिद्धितः ।।९।। अन्यथा तत्त्वतोऽद्वैते हन्त संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं संप्रसज्यते ।।१०।। = =
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy