SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुचय, भाग - २, परिशिष्ट - ३ अवचूर्णि - नैयायिक मत रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपपदार्थस्य निराक्रियमाणत्वाद चेतन (त्वेन) परमाणव एव तात्त्विकाः । रागद्वेषमोहानां समस्तो गणो यस्मात् समुदेति संमुद्भवति । अयमात्मा अयमात्मीयः पदे पदसमुदायोपचारात्, अपरः (अयं परः) परकीयः इति भावो रागद्वेषनिबन्धनं स समुदयः ।। ६ ।। ८७६ सर्वेषां घटपटादीनां स एवायमिति ये संस्कारा ज्ञानसंतानास्ते क्षणिकाः, सर्वं सत् क्षणिकम् अक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, एवं या वासना स मार्गः । तुशब्दः पश्चा (पाश्चात्यार्थसंग्रहार्थं पूर्वं समुचयार्थे । निरोधो मोक्षः । सर्वक्षणिकत्वनैरात्म्यवासनारूपः [मार्गः ] ।।७।। पञ्चेन्द्रियाणि प्रसिद्धानि । शब्दरूपरसगन्धस्पर्शरूपाः विषयाः । मानसं चित्तम् धर्मायतनं धर्मप्रधानमायतनं चेत्यादि । एतानि द्वादशायतनानि तत्त्वानन्तरं निरूप्यन्ते ||८|| तथा सौगतदर्शने द्वे प्रमाणे । चः पुनरर्थे । अक्षमक्षं प्रतिगतं प्रत्यक्षम् ऐन्द्रियकम् । अनुमीयते ऽनुमानं लैङ्गिकम् । सम्यग्ज्ञानं निश्चितावबोधो द्विविध एव [ द्विधा यतः ] ।। ९ ।। शब्दसंसर्गवती प्रतीतिः कल्पना तयापोढं रहितं निर्विकल्पकम् अभ्रान्तं भ्रान्तिरहितम्, रगरगायमाणपरमाणुलक्षणस्वरूपं [स्व] लक्षणं हि प्रत्यक्षं निर्विकल्पकम्, बाह्ये स्थूलपदार्थ[र्थगं तज्ज्ञानं ] गतं ज्ञानं सविकल्पकं भ्रान्तं च । तु पुनः त्रिरूपात् पक्षधर्मत्वं सपक्ष (क्षे) सत्त्व (त्त्वं) विपक्षव्यावृत्तिरूपात् लिङ्गतो धूमादेः धी[यत्] लिङ्गिनो वैश्वानरादेर्ज्ञानं तदनुमानन् । सूत्रे लक्षणं नेक्षणं [णीयं] तेन चरमपदस्य नवाक्षरत्वेऽपि न दोषः ।। १० ।। साध्यधर्मविशिष्ट धर्मी पक्षः, यथा 'अद्रिरयं वह्निमान् धूमवत्त्वात् ' अत्र पर्वतः पक्षः धर्मत्वं वह्निमत्त्वं धूमवत्त्वेन व्याप्तम् । सपक्षे[क्ष ] सत्त्वमिति, यो यो धूमवान् स स अग्निमान् यथा महानसे, धूमवत्त्वेन हेतुना सपक्षे महानसे सत्वं वह्निमत्त्वम् । विपक्षे नास्तिता यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा जलाशये वह्निमत्त्वं व्यावर्त्तमानं व्याप्यं धूमवत्त्वमादाय व्यावर्तते ।।११।। अयं संक्षेपो निवेदितः कथितः, बौद्धानां राद्धान्तः सिद्धान्तः [तस्य ] [ तद्वाच्यः ] यद्वाच्यम्, इतो नैयायिकस्य विशेषशैवशासनस्य ।। १२ ।। [ नैयायिक मत ] अक्षपादा नैयायिकाः । सृष्टिः प्राणी (णि)नां समु[नामुत्पत्तिः, संहारः तद्विनाशः तत्करोतीति । विश्वस्य हि कश्चित् स्रष्टा संहर्ता विज्ञेयः केवलसृष्टौ च निरन्तरोत्पद्यमानापारप्राणिगणस्य भुवनत्रयेऽप्यमात्वमिति [प्राणिगणस्यापारत्वात्] संहारकर्तापि कश्चिदभ्युपगन्तव्यः जगतः कार्यत्वाच्च । शिव ईश्वरः । विभुः [सर्व]व्यापकः । नित्यश्चासौ एकश्चेति [ अ ] प्रच्युतानुत्पन्नस्थिर ( रैक ) स्वभावं हि नित्यम्, एकोऽद्वितीयः बहूनां घटना[घटनां] युक्तेः । सर्वज्ञः स सर्वविशेषज्ञानात् [तात् ] शाश्वतबुद्धिस्थानम्, क्षणिकबुद्धित्वे हि पराधीनता ।। १३ ।। अत्र नैयायिकमते प्रमाणादीनि षोडशतत्त्वानि यथाक्रमं व्याक्रियमाणानि । नामानि सुगमानि । एवम् अन प्रकारेण प्रकटनमार्यस्य[मर्थस्य ] पदार्थस्योपलब्धिर्ज्ञानं तस्य हेतुः कारणं प्रमाणं चतुर्विधम् ।।१४ १६ ।।
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy