SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ षड्दर्शन समुच्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन આનાથી સર્વસંબંધી પક્ષ પણ દૂષિત થઈ જાય છે. કારણ કે દશ્યપદાર્થની અનુપલબ્ધિ સર્વ પ્રાણીઓને થઈ શકતી નથી. તથા અસર્વજ્ઞપ્રાણીઓને સર્વજ્ઞની ઉપલબ્ધિ ન થાય, પરંતુ સર્વજ્ઞને તો ‘હું સર્વજ્ઞ છું' એવી ઉપલબ્ધિ થાય છે. આથી સર્વપ્રાણીઓને સર્વજ્ઞની અનુપલબ્ધિ થતી નથી. ४२१ વળી જગતના સર્વજીવોને સર્વજ્ઞની અનુપલબ્ધિ છે, તેવું તમે કહી શકો તેમ નથી. કારણ કે તમે અસર્વજ્ઞ છો તથા સર્વજ્ઞસિવાયનો બીજો કોઈવ્યક્તિ જગતના તમામજીવોના અધ્યવસાયોને જાણી શકતો નથી. नापि कारणानुपलम्भः, तत्कारणस्य ज्ञानावरणादिकर्मप्रक्षयस्यानुमानेनोपलम्भात् । एतत्साधकं चानुमानं, युक्तयश्चाग्रे वक्ष्यन्ते । कार्यानुपलम्भोऽप्यसिद्धः, तत्कार्यस्याविसंवाद्यागमस्योपलब्धेः । व्यापकानुपलम्भोऽप्यसिद्धः, तद्व्यापकस्य सर्वार्थसाक्षात्कारित्वस्यानुमानेन प्रतीतेः । तथाहि अस्ति कश्चित्सर्वार्थसाक्षात्कारी, तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धकं तत्तत्साक्षात्कारि, यथापगततिमिरादिप्रतिबन्धं लोचनं रूपसाक्षात्कारीति नानुपलम्भादिति साधनं सर्वज्ञाभावं साधयति । विरुद्धविधिरपि साक्षात्परंपरया वा सर्वज्ञाभावं साधयति 1 प्रथमपक्षे सर्वज्ञत्वेन साक्षाद्विरुद्धस्यासर्वज्ञत्वस्य क्वचित्कदाचिद्विधानात्सर्वत्र सर्वदा वा । तत्राद्यपक्षे न सर्वत्र सर्वदा सर्वज्ञाभावः सिध्येत्, यत्रैव हि तद्विधानं तत्रैव तदभावोः नान्यत्र । नहि क्वचित्कदाचिदग्नेर्विधाने सर्वत्र सर्वदा वा तद्व्यापकविरुद्धशीताभावो दुष्टः । द्वितीयोऽप्ययुक्तः, अर्वादृशः सर्वत्र सर्वदा वा सर्वज्ञत्वविरुद्धासर्वज्ञत्वविधेरसंभवात्, तत्संभवे च तस्यैव सर्वज्ञत्वापत्तेः सिद्धं नः समीहितम् । परंपरयापि किं तद्व्यापकविरुद्धस्य १, तत्कारणविरुद्धस्य २, तत्कार्यविरुद्धस्य ३ वा विधिः सर्वज्ञाभावमादिशेत् । न तावद्व्यापकविरुद्धविधिः, स हि सर्वज्ञस्य व्यापकमखिलार्थसाक्षात्कारित्वं तेन विरुद्धं तदसाक्षात्कारित्वं नियतार्थग्राहित्वं वा तस्य च विधिः क्वचित्कदाचित्तदभावं साधयेन्न पुनः सर्वत्र सर्वदा वा, तुषारस्पर्शव्यापकशीतविरुद्धाग्निविधानात् क्वचित्कदाचित्तुषारस्पर्शनिषेधवत् । कारणविरुद्धविधिरपि क्वचित्कदाचिदेव सर्वज्ञाभावं साधयेत्, न सर्वत्र । सर्वज्ञत्वस्य हि कारणमशेषकर्मक्षयः, तद्विरुद्धस्य कर्माक्षयस्य च विधिः क्वचित्कदाचिदेव सर्वज्ञा
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy