________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - २ लघुवृत्ति - जैनमत
एवं पूर्वोक्तप्रकारेण सांख्यमतस्यापि समासः संक्षेपः कथितः । अपि समुच्चयार्थे न केवलं बौद्धनैयायिकयोः संक्षेप उक्तः, सांख्यमतस्याप्यधुना कथित इति । सांख्य इति पुरुषनिमित्तेयं संज्ञा । संख्यस्य इमे सांख्याः । तालव्यो वा शकारः शङ्खनामाऽऽदिपुरुषः ।
[जैनमत ]
अथ क्रमायातं जैनमतोद्देशमाह- अधुनेत्युत्तरार्द्धेन वा संबध्यते । अधुना इदानीं जैनदर्शनसंक्षेपः कथ्यते कथंभूत इति । सुविचारवान् । सुष्ठु शोभनो विचारोऽर्थोस्यास्तीति मत्त्वर्थीये मतुप् । सुविचारवानिति साभिप्रायं पदम् । अपरदर्शनानि हि ।
"पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ।। " [
इत्याद्युक्त्या न विचारपदवीमाद्रियन्ते । जैनस्त्वाह -
तदेवाह -
" अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात्परीक्षाया बिभेति किम् ।।" [
इति युक्तियुक्तविचारपरम्परापरिचयपथपथिकत्वेन जैनो युक्तिमार्गमेवावगाहते । न च पारम्पर्यादिपक्षपातेन युक्तिमुल्लङ्घयति परमार्हतः । उक्तं च -
" पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य तस्य कार्यः परिग्रहः ।। "
इत्यादिहेतुहेतिशतनिरस्तविपक्षप्रसरत्वेन 'सुविचारवान्' इत्यसाधारणं विशेषणं ज्ञेयमिति ।
जिनेन्द्रो देवता तत्र रागद्वेषविवर्जितः । हतमोहमहामल्लः केवलज्ञानदर्शनः ।। ४५ ।।
८५१
सुरासुरेन्द्रसंपूज्यः सद्भूतार्थोपदेशकः ।
कृत्स्नकर्मक्षयं कृत्वा संप्राप्तः परमं पदम् ।।४६ ॥
तत्र तस्मिन् जैनमते जिनेन्द्रो देवता कृत्स्नकर्मक्षयं कृत्वा परमं पदं समाप्त इति संबन्ध: । जिनेन्द्र इति जयन्ति रागादीनिति जिनाः सामान्यकेवलिनस्तेषामिन्द्रः स्वामी तादृशासदृशचतुस्त्रिंशदतिशयसंप जिनेन्द्रो देवता दर्शनप्रवर्तक आदिपुरुषः, एष कीदृक् सन् शिवं संप्राप्त इति परासाधारणानि विशेषणान्याह
१. अप्रामाणिकोऽयं कल्पः । प्रथमकल्पस्तु । कथमपि संगमनीयः । वस्तुतस्तु, “शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते" इति व्यासस्मृत्या भावार्थकाङ्प्रत्ययनिष्पन्नज्ञान-वाचकसंख्याशब्दात्संबन्धिबोधकशैषिकाणा “सांख्य" शब्दः सिद्धः । यद्वा "संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते । चतुर्विंशतितत्त्वानि तेन सांख्याः प्रकीर्तिताः" इति भारतात्, संख्याशब्दाद्वेदार्थकाणां निष्पन्नः “सांख्य" शब्दः । उभयथाऽपि योगरूढः । मु० टि० ।