SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ७५० षड्दर्शन समुचय भाग- २, श्लोक -६५, वैशेषिक दर्शन પદાર્થ–બુદ્ધિને ઉત્પન્ન કરે છે. સત્તા સામાન્ય દ્રવ્ય, ગુણ અને કર્મ - આ ત્રણપદાર્થોમાં “સત્ સત્' બુદ્ધિ ઉત્પન્ન કરે છે. દ્રવ્યત્વ આદિ સામાન્ય વિશેષસામાન્ય છે. (તે પ્રતિનિયતદ્રવ્ય આદિમાં દ્રવ્ય દ્રવ્ય” આદિ અનુગતબુદ્ધિ કરે છે. તથા ગુણાદિથી વ્યાવૃત્ત કરે છે.) અન્યઆચાર્ય આ પ્રમાણે કહે છે - સત્તા દ્રવ્ય, ગુણ અને કર્મ' આ ત્રણ પદાર્થોમાં “સત્ સત્' બુદ્ધિ કરે છે. (આથી તે સત્તારૂપ મહાસામાન્ય છે.) દ્રવ્યત્વાદિ સામાન્યરૂપ છે. પૃથ્વીત્યાદિ સામાન્ય વિશેષરૂપ છે. દ્રવ્ય, ગુણ અને કર્મથી સત્તા આદિના લક્ષણ ભિન્ન હોવાથી સત્તા આદિ દ્રવ્યાદિથી ભિન્ન પદાર્થ છે. અર્થાત્ સત્તા આદિ સ્વતંત્રપદાર્થ તરીકે સિદ્ધ થાય છે. _ 'अथ' इत्यानन्तर्ये । विशेषस्तु निश्चयतः-तत्त्ववृत्तित एव विनिर्दिष्टः, न पुनर्घटपटकटादिरिव व्यवहारतो विशेषः । तुशब्दोऽनन्तरोक्तसामान्यादस्यात्यन्तव्यावृत्तिबुद्विहेतुत्वेन भृशं वैलक्षण्यं सूचयति । यत एव निश्चयतो विशेषः, तत एव 'नित्यद्रव्यवृत्तिरन्त्यः' इति । तत्र नित्यद्रव्येषु विनाशारम्भरहितेष्वण्वाकाशकालदिगात्ममनःसु वृत्तिर्वर्तनं यस्य स नित्यद्रव्यवृत्तिः । तथा परमाणूनां जगद्विनाशारम्भकोटिभूतत्वात् मुक्तात्मानां मुक्तमनसां स संसारपर्यन्तरूपत्वादन्तत्वम्, अन्तेषु भवोऽन्त्यो विशेषो विनिर्दिष्टः प्रोक्तः, अन्तेषु स्थितस्य विशेषस्य स्फुटतरमालक्ष्यमाणत्वात् । वृत्तिस्तु तस्य सर्वस्मिन्नेव परमाण्वादौ नित्ये द्रव्ये विद्यत एव । अत एव नित्यद्रव्यवृत्तिरन्त्य इत्युभयपदोपादानम् । विशेषश्च द्रव्यं द्रव्यं प्रत्येकैक एव वर्तते नानेकः, एकेनैव विशेषेण स्वाश्रयस्य व्यावृत्तिसिद्धेरनेकविशेषकल्पनावैयर्थ्यात् । सर्वनित्यद्रव्याण्याश्रित्य पुनर्विशेषाणां बहुत्वेऽपि जातावत्रैकवचनम् । तथा च प्रशस्तकरः “अन्तेषु भवा अन्त्याः, स्वाश्रयस्य विशेषकत्वात् विशेषाः, विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, यथास्मदादीनां गवादिष्वधादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिर्दृष्टा, यथा गौ शुक्लः, शीघ्रगतिः, पीनककुद्यान्, महाघण्ट इति । तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनःसु चान्यनिमित्तासंभवाद्येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति A. “नित्यद्रव्यवृत्तयोऽन्त्या विशेपाः । ते खल्वत्यन्तव्यावृत्तिहेतुत्वाद्विशेषा एव ।”- प्रश० भा० पृ० ४ ।
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy