SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ३९४ षड्दर्शन समुञ्चय भाग - २, श्लोक - ४५-४६, जैनदर्शन वा ? यद्याद्यः, तर्हि न ततो बुद्धिमत्कर्तृविशेषसिद्धिः, तेन समं व्याप्त्यसिद्धेः किं तु कर्तृसामान्यस्य (सिद्धिः) । तथा च हेतोरकिंचित्करत्वं साध्यविरुद्ध-साधनाद्विरुद्धत्वं वा । ततः कार्यत्व कृतबुद्ध्युत्पादकम्, बुद्धिमत्कर्तुर्गमकं न सर्वम् । सारूप्यमात्रेण च गमकत्वे बाष्पादेरप्यग्निं प्रति गमकत्वप्रसङ्गः, महेश्वरं प्रत्यात्मत्वादेः सादृश्यात्संसारित्वकिंचिज्ज्ञत्वाखिलजगद-कर्तुत्वानुमापकानुषङ्गः, तुल्याक्षेपसमाधान-त्वात् । ततो बाष्पधूमयोः केनचिदंशेन साम्येऽपि यथा कुतश्चिद्विशेषाद्भूमोऽग्निं गमयति न वाष्पादिः, तथा क्षित्यादीतरकार्य-त्वयोरपि कश्चिद्विशेषोऽभ्युपगम्यः । अथ द्वितीयः, तर्हि हेतोरसिद्धत्वं कार्यविशेष-स्याभावात्, भावे वा जीर्णकूपप्रासादादिवदक्रिया-दर्शिनोऽपि कृतबुद्ध्युत्पादकत्वप्रसङ्गः । समारोपान्नेति चेत्, सोऽप्युभयत्राविशेषतः किं न स्यात्, उभयत्र कर्तुरतीन्द्रियत्वा-विशेषात् । अथ प्रामाणिकस्यास्त्येवात्र कृतबुद्धिः । ननु कथं तस्य तत्र कृतत्वावग-मोऽनेनानुमानेनानुमानान्तरेण वा । आद्येऽन्यान्याश्रयः । तथाहिसिद्धविशेष-णाद्धेतोरस्योत्थानं, तदुत्थाने च हेतोर्विशेषणसिद्धिः । द्वितीय-पक्षेऽनुमानान्तरस्यापि सविशेषणहेतोरेवोत्थानम्, तत्राप्यनुमानान्तरात्तत्सिद्धावनवस्था, तन्न कृतबुद्ध्युत्पादकत्वरुपविशेषणसिद्धिः । तथा च विशेषणासिद्धत्वं हेतोः । यदुच्यते-“खातप्रतिपूरितभूनिदर्शनेन कृतकानामात्मनि कृतबुद्धयुत्पादकत्वनियमाभावः” इति तदप्यसत् तत्राकृत्रिमभूभागादिसारूप्यस्य तदनुत्पादकस्य सद्भावात्त-दनुत्पादकस्योपपत्तेः । न च क्षित्यादावप्यकृत्रिमसंस्थानसारूप्यमस्ति, येनाकृत्रिमत्वबुद्धिरुत्पद्यते, तस्यैवानभ्युपगमात्, अभ्युपगमे चापसिद्धान्तप्रसक्तिः स्यादिति । कृतबुद्ध्युत्पादकत्वरूपविशेषणासिविशेषणासिद्धत्वं हेतोः । ટીકાનો ભાવાનુવાદઃ આ રીતે કાર્યના સ્વરૂપને વિચારતાં કોઈપણ રીતે કાર્યવહેતુ સિદ્ધ થતો નથી. આથી કાર્યવહેતુ અસિદ્ધ છે. વળી જગતમાં કદાચિત્કવસ્તુ કાર્ય તરીકે ઓળખાય છે. અર્થાતુ લોકમાં કાર્ય તો તેને કહેવાય છે કે જે ક્યારેક પણ ઉ = થયું હોય. પરંતુ જગત તો ઈશ્વરની જેમ સદા વિદ્યમાન હોવાથી કેવી રીતે કાર્ય કહેવાય? અર્થાત્ જેમ ઈશ્વર અનાદિ છે, એટલે કે તેની શરૂઆત નથી અને ઉત્પત્તિ નથી. તેમ જગત પણ અનાદિ અને ઉ. થયેલ ન હોવાથી કેવી રીતે કાર્ય કહેવાય ?
SR No.022414
Book Titleshaddarshan Samucchay Satik Sanuwad part 02
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages544
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy