SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३४८ षड्दर्शन समुझय भाग - १, परिशिष्ट - ५, षड्दर्शन समुश्शयभूमिका अत एव सत्कार्यत्वाद्यंशे व्यवहारप्रकृतिकत्वाभावेऽपि सकलशास्त्रप्रयोजनभागित्वेनात्मन एव मुख्योद्देशेन नयचिन्तायाः प्रस्तुतत्वान्न दोष इति । यत्तु "अद्वैतवादिदर्शनान्यखिलानि साङ्ख्यदर्शनं चैतदाभासत्वेन प्रत्येयम्" इत्यादिना सङ्ग्रहाभासत्वेन साङ्ख्योक्तिः - सा सत्कार्यत्वाद्यंशे व्यवहारप्रकृतिकत्वाभावनिबन्धनेति सम्भाव्यते । ऋजुसूत्र-शब्द-समभिरूढेवम्भूतेभ्यः क्रमेण सौत्रान्तिक-वैभाषिक-योगाचार-माध्यमिकाख्याश्चत्वारो बौद्धदर्शनभेदास्समुत्पत्रास्तत्स्वरूपं च सङ्खपतः-- "अर्थो ज्ञानसमन्वितो मतिमता वैभाषिकेणोच्यते, प्रत्यक्षो नहि बाह्यवस्तुविसरः सौत्रान्तिकैराश्रितः । योगाचारमतानुगैरभिमता साकारबुद्धिः परा, मन्यन्ते बत मध्यमाः कृतधियः स्वच्छां परां संविदम् ।।१।।" इत्यनेन काव्येन ज्ञातव्यम् । यद्यपि वचनभेदादभिप्रायभेदाद्वा दर्शनभेदाः भूयांसस्सम्भवितुरमर्हन्तीति । "जावइया वयणपहा, तावइया चेव हुँति नयवाया । जावइया नयवाया, तावइया चेव परसमया ।।१।।" इति । अनया प्राकृतार्यया स्फुटमवसीयते । एतेन जैनदर्शनस्य भेदानां सप्तशती इत्याकारिका या सर्वदर्शनसङ्ग्रहभाषान्तरभूमिकाकारोक्तिः साऽपि निरस्ताऽवसातव्या, सप्तनयानां सप्तशतभेदवत्त्वात्, नयानां च परसमयत्वमत्र स्पष्टतया सङ्कलितम्, तथाऽप्यस्मिन् प्रबन्धे प्ररूपितषड्दर्शनमध्येऽन्तर्भूतत्वेनैवैतेषामत्र दर्शनषट्कं प्ररूपितमत एव "सर्वदर्शनवाच्यार्थः सझेपेण निगद्यते" इत्याकारिका या प्रबन्धप्रणेतृप्रतिज्ञा साऽपि परिपालिता भवतीति । अथ सुविख्यातवेदान्तदर्शनोपेक्षा न युज्यते "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्य: परिग्रहः ।।१।।" इति प्रतिज्ञयापि सुप्रसिद्धप्रसिद्धितामेतेषां महात्मनाम् । यद्युच्यते षडेव दर्शनानीत्युक्तिव्याहतिभयेन तदुपेक्षणं, तदपि न क्षोदक्षम, तस्यास्त्वन्यरीत्याऽपि निर्वाहात्, वस्तुनः शून्यवादित्वेन तस्यानिरूपणमिति चेत् ? जैमिनीयदर्शनस्यापि निरूपणं निरर्थकं तत्त्वविषये तस्यापि तत्साम्यात्, सत्यमेतत्, परं स्वमास्तिकत्वेन ख्यापयदपि सर्वज्ञाभावं ख्यापयतीति ज्ञापनार्थकत्वेन तनिरुपणस्यावश्यकत्वात् स्वसंदृब्ध शास्त्रवार्तासमुचये वेदान्तदर्शनस्य सविस्तरं निरूपितत्वाञ्च तदुपेक्षणं युज्यत एवेति सम्भाव्यते । एतेन - આ ગ્રન્થનો તો ઉદ્દેશ જ એ છે કે સર્વદર્શનોમાં જૈનસ્યાદ્વાદ પરમદર્શન છે એમ બતાવવું અને તે રીતે શ્રીહરિભદ્રાચાર્યે યથાર્થ રીતે સિદ્ધ કરી બતાવ્યું પણ છે, જો કે મને પોતાને તો એમ નિશ્ચય છે કે વેદાન્તદર્શનનું યથાર્થાવલોકન કર્યું હોત તો એવી કુશાગ્રબુદ્ધિના પંડિતને પોતાના કેટલાક વિચાર ફેરવવાનું કારણ મલત. કેમ કે તેમની પ્રતિજ્ઞા જ એવી છે કે “મારે શ્રીવીરનો પક્ષપાત નથી, કપિલાદિનો દ્વેષ નથી, જેનું વચન સયુક્તિક જણાય તેનો સંગ્રહ કરવાનો નિશ્ચય છે.” “અસ્તુ એ વાર્તાની ચર્ચા અત્ર પ્રકૃતિ નથી.”
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy