SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १५८ षड्दर्शन समुञ्चय भाग - १, श्लोक - १७, १८, १९, नैयायिक दर्शन यालोकादिका ज्ञानजनिका सामग्रीन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशिष्टज्ञानजननादुपचारेणेन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणविशिष्टा सती प्रत्यक्षमिति । एवं च सामग्र्याः सूत्रोपात्तविशेषणयोगित्वं तथाविधफलजनकत्वादुपचारेणैव भवति, न तु स्वत इति । न तु युक्तस्तत्पक्षोऽपि । फलविशेषणपक्षस्तु युक्तिसंगतः । अत्र पक्षे यत इत्यध्याहार्यम् । ततोऽयमर्थः । इन्द्रियार्थसन्निकर्षोत्पन्नत्वादिविशेषणं ज्ञानं यत इन्द्रियार्थसन्निकर्षादेर्भवति, स इन्द्रियार्थसन्निकर्षादिः प्रत्यक्षं प्रमाणम् । ज्ञानं च प्रत्यक्षप्रमाणफलम् । यदा तु ततोऽपि ज्ञानाद्धानोपादानादिबुद्धय उत्पद्यन्ते, तदा हानादिबुद्ध्यपेक्षया ज्ञानं प्रमाणं हानादिबुद्धयस्तु फलं, “यदा ज्ञानं प्रमाणं, तदा हानादिबुद्धयः फलम्" इति वचनात् [न्यायभा. १/१/३] । यथा चानुभवज्ञानवंशजायाः स्मृतेस्तथा चायमित्येतज्ज्ञानमिन्द्रि-यार्थसन्निकर्षजत्वात्प्रत्यक्षफलम् । तत्स्मृतेस्तु प्रत्यक्षता । सुखदुःखसंबन्धस्मृतेस्त्विन्द्रियार्थसन्निकर्षसहकारित्वात्तथा चायमिति सारूप्यज्ञानजनकत्वेनाध्यक्षप्रमाणता । सारूप्यज्ञानस्य च सुखसाधनोऽयमित्यानुमानिकफलजनकत्वेनानुमानप्रमाणता । न च सुखसाधनत्वशक्तिज्ञानमिन्द्रियार्थसन्निकर्षजं, शक्तेरसन्निहितत्वात् । आत्मनो मनइन्द्रियेण सन्निकर्षे सुखादिज्ञानं फलम् । मनइन्द्रियस्य तत्सन्निकर्षस्य च प्रत्यक्षप्रमाणता । एवमन्यत्रापि यथार्हं प्रमाणफलविभागोऽवगन्तव्य इति । एतदेवेन्द्रियार्थसन्निकर्षादिसूत्रं ग्रन्थकारः पद्यबन्धानुलोम्येनेत्थमाह । “इन्द्रियार्थसंपर्कोत्पन्नम्" इत्यादि । अत्र संपर्कः संबन्धः । अव्यभिचारि चेत्यत्र चकारो विशेषणसमुद्ययार्थः । अव्यभिचारिकमिति पाठे त्वव्यभिचार्येवाव्यभिचारिक स्वार्थे कप्रत्ययः । व्यपदेशो नामकल्पना । अत्रापि व्याख्यायां यत इत्यध्याहार्यम् । भावार्थः सर्वोऽपि प्राग्वदेवेति । ટીકાનો ભાવાનુવાદ: भी सूत्रमi (प्रत्यक्षान ६१९॥ अथु छ, ते सूत्रमi) (i) ३८, (ii) २५३५ भने (ii) सामग्री એમ ત્રણવિશેષણપક્ષો સંભવે છે. તે ત્રણ વિશેષણપક્ષમાં સ્વરૂપવિશેષણ પક્ષ યુક્ત નથી. (જો સ્વરૂપવિશેષણ પક્ષ સ્વીકારશો તો) “યથોક્તવિશેષણથીયુક્ત જ્ઞાન પ્રત્યક્ષ છે.” આવો તે સૂત્રનો અર્થ થશે. અને તેથી અકારક એવા જ્ઞાનના પ્રત્યક્ષત્વની આપત્તિ આવશે. અને અકારકજ્ઞાનનું પ્રત્યક્ષત્વ યુક્ત નથી. કારણકે
SR No.022413
Book Titleshaddarshan Samucchay Satik Sanuwad part 01
Original Sutra AuthorN/A
AuthorSanyamkirtivijay
PublisherSanmarg Prakashan
Publication Year2005
Total Pages436
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy